________________
हरिवंशपुराणं ।
७०३
षष्टितमः सर्गः ।
अथ धर्मकथाछेदे प्रणिपत्य जिनेश्वरं । कृतांजलिरपृच्छत्सा देवकी विनयं श्रिता ॥ १ ॥ भगवन् भवने मेऽद्य जातरूपमनोहरं । मुनियुग्मं प्रविश्य त्रिरुपर्युपरि भुक्तवान् ॥ २॥ भगवन् भुक्तिवेलायामेकस्यामेकयुक्तये | बहुकृत्वो गृहेत्वेकं यतयः प्रविशति किं ॥ ३ ॥ अथातिशयरूपत्वाद्यतियुग्मत्रयं मया । भ्रांत्या नालक्षि मे स्नेहो देहजेश्विव श्वभूत् ॥ ४ ॥ इत्युक्ते कथयन्नाथस्तनयास्ते षडप्यमी । युग्मत्रतया सूता भवत्या कृष्णपूर्वजाः ॥ ५ ॥ देवेन रक्षिताः कंसात्सुदृष्टचलकयोः पुनः । सुतत्वेन च वृद्धास्ते पुरे भद्रिलनामनि ॥ ६ ॥ धर्म श्रुत्वा समं सर्वे मम शिष्यत्वमागताः । कृत्वा कर्मक्षयं सिद्धिं यास्यत्यत्रैव जन्मनि ॥ ७ ॥ स्नेहोऽपत्यकृतोऽमीषु भवत्याः समभूदतः । धर्मचारिषु सर्वेषु स्नेहः किमुत सूनुषु ॥ ८ ॥ प्रणनाम ततस्तुष्टा देवकी देहजान्मुनीन् । यादवाश्च समस्तास्ते कृष्णाद्यास्तुष्टुवुर्नताः ॥ ९ ॥ प्रणम्यात्मभवान् पृष्टो जिनेंद्रः सत्यभामया । यदुलोकामराध्यक्षं दिव्यचक्षुर्जगाविति ॥ १० ॥ प्राम्भद्रिलपुरेऽत्राभून्मरीचिकपिलासुतः । काव्यकृत्पंडितंमन्यो विप्रो मुंडशलायनः ॥ ११ ॥ पुष्पदंत जिनेंद्रस्य तीर्थे व्युच्छेदभावतः । अभावे जिनमार्गज्ञभव्यानां भरतक्षितौ ॥ १२ ॥
Jain Education International
षष्टितमः सर्गः ।
For Private & Personal Use Only
www.jainelibrary.org