________________
हारेबंशपुराण।
७०२
एकोनषष्टितमः सर्गः। इंद्राधैनिदशैस्तस्मिनुपेंद्राद्यैश्च यादवैः । द्वारिकापौरलोकेन सेव्यमानो जिनो बभौ ॥ १२७ ।। एकादश गणाधीशा वरदत्तादयस्तदा । श्रुतज्ञानसमुद्रातर्दर्शिनोत्र विरेजिरे ॥ १२८ ॥ चतुःशतानि तत्रान्ये मान्याः पूर्वधराः सतां । एकादशसहस्राष्टशतसंख्यास्तु शिक्षकाः ॥१२९ । शतान्यवधिनेवास्तु केवलज्ञानिनोऽपि च । ते पंचदशसंख्यानाः प्रत्येकमुपवर्णिताः ॥ १३० ।। मत्या विपुलया युक्ता शतानि नव संख्यया । वादिनोष्टौ शतानि स्युरेकादश नु वैक्रियाः १३१ चत्वारिंशत्सहस्राणि राजीमत्या सहार्जिकाः । लकैकोनसप्तत्या सहस्रैः श्रावकाः स्मृताः १३२ पत्रिंशच्च सहस्राणि लक्षाणां त्रितयं तथा । सम्यग्दर्शनसंशुद्धाः श्राविकाः श्रावकव्रताः॥१३३॥ पूर्ववत्तीयकृन्मेषस्तृषितान् भव्यचातकान् । वर्षन् धर्मामृतं दिव्यं दिव्यध्वनिरतर्पयत् ॥१३४॥ इति दुरापमहोदयपर्वते जिनरवौ स्थितवत्यमितोदये ।
विकसति प्रकृतांजलिकुद्मलं सकललोकसरोजबुधांबुजं ॥ १३५ ॥ इत्यरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृतौ भगवद्विहारवर्णनो नामैकोनषष्टितमः सर्गः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org