SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराण। एकोनषष्टितमः सर्गः। पूर्ववद्रीचते तत्र चतुर्भेदैः सुरासुरैः । समवस्थानभूभागे जिनोऽभागणवेष्टितः ॥ ११४ ॥ तत्पुराधिपतिः पोंडू: पोरलोकसमन्वितः । सस्तुतिर्जिनमानम्य समासीनः कृतांजलिः ॥११५॥ देवक्यास्तनया ये षट् सुदृष्टयलकयोः स्थिताः। पुत्रप्रीतिं प्रकुर्वाणास्तेऽपि तत्रैव संगताः॥११६॥ प्रत्येकं योषितस्तेषां द्वात्रिंशद्गणनां गुणैः । रूपादिभिरपींद्रस्य जयंत्यः शुचयः शची ॥११७।। अवतीर्य रथेभ्यस्ते षड्भ्यः षडपि सोदराः। नत्वा नुत्वा जिनं राज्ञा सहासीना महौजसः।।११८।। जिनः श्रावकधर्म च सम्यकदर्शनभूषितं । यतिधर्म च कर्मन्नं जगाद सदसे तदा ॥ ११९ ॥ ततो विदिततत्वार्थाः श्रुत्वा धर्मामृतं जिनात् । जातसंसारनिर्वेदा बंधुभ्यो विनिवेद्य ते॥१२०॥ जिनपादांतिके दीक्षां मोक्षलक्ष्मीविधायिनी । भ्रातरः सहनिस्संगा पडपि प्रतिपेदिरे ॥१२१।। द्वादशांगं श्रुतज्ञानं लब्धवीजादिबुद्धयः । अधिगम्य तपो घोरं चक्रुस्ते राजसूनवः ।। १२२ ॥ षष्ठादयः सहामीषां धारणापारणा सह । योगास्त्रैकालिकाः साकं साकं शय्यासनक्रियाः॥१२३॥ तेषां चरमदेहानां तपतां परमं तपः । देहानां परमा कांतिः पूर्वतोऽपि विवर्धते ॥ १२४ ।। उपमानोपमेयत्वमन्योन्यस्य तपस्यमी । सवाह्याभ्यंतरे प्रापुस्तीर्थकृत्पदसेवकाः ॥ १२५ ॥ तथाविधमहाभूत्या विहृत्य स महीं जिनः । आगत्य समवस्थाने नोर्जयंतमभूषयन् ।। १२६ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy