________________
हरिवंशपुराणं । . ७००
. एकोनषष्टितमः सर्गः । दृश्यते दृष्टिहारीव सुखदृश्यः सुखावहः । पुण्यमूर्तिस्तदंतस्थः पूज्यते पुरुषाकृतिः ॥१०१॥ काधियोऽपुण्यजन्मानः स्वापुण्यजरुषान्विताः।न पश्यते च तद्भासं भानुभासमुलूकवत ॥१०२॥ तिरयंती रखेस्तेजः पूरयंती दिशोऽखिलाः। तत्प्रभा भानवीयेव पूर्व व्याप्नोति भूतलं ॥१०३॥ तस्याश्चानुपदं याति लोकेशो लोकशांतये । लोकानुद्भासयन् सर्वानतिदीधितिमप्रभः ॥१०४॥ आसंवत्सरमात्मांगैः प्रथयन्प्राभवीं गतिं । भासते रत्नवृष्टया वा परीत्यैरावतो यथा ॥१०५ ॥ अनुबंधावनिप्रख्यं दिवि मार्गादि दृश्यते । त्रिलोकातिशयोद्भूतं तद्धि प्राभवमद्भुतं ॥ १०६ ॥ पट्टभवंति मंदाश्च सर्वे हिंस्रापर्धयः । खेदः स्वेदार्तिचिंतादि न चैषामस्ति तत्क्षणे ॥ १०७ ॥ विहारानुगृहीतायां भूमौ न डमरादयः । दशाभ्यस्तयुगं भर्तुरहोत्र महिमा महान् ॥१०८ ॥ विभूत्योद्धतया भूत्यै जगतां जगतां विभुः। विजहार भुवं भव्यान् बोधयन् बोधदः क्रमात् ।।१०९।। सुराष्ट्रमत्स्यलाटोरुसूरसेनपटच्चरान् । कुरुजांगलपांचालकुशाग्रमगधांजनान् ॥ ११० ॥ अंगवंगकलिंगादीनानाजनपदान् जिनः । विहरन् जिनधर्मस्थांचक्रे क्षत्रियपूर्वकान् ॥ ११२ ॥ ततो मलयनामानं देशमागत्य स क्रमात् । सहस्राम्रवने तस्थौ पुरे भद्रिलपूर्वके ॥११३॥
१ द्विशतयोजनं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org