________________
६९९
हरिवंशपुराण।
एकोनषष्टितमः सर्गः । रजस्तिमिरिकापायवैमल्यामरणत्विषः । दिक्कन्याः पुष्पजापैस्तं पूजयंति दिशां पतिं ॥ ८८ ॥ नभः स्वच्छतरं स्पष्टतारातरलभासुरं । सरः शरप्रसन्नांमः कुमुदिव दृश्यते ॥ ८९ ॥ दूराच्चाल्पधियः सर्वे नयंति किमुतेतरे । चतुरास्यश्चतुर्दिक्षु छायादिरहितो विभुः ॥ ९० ॥ भुक्त्यभावो जिनेंद्रस्योपसर्गस्य तथैव च । अहो लोकैकनाथस्य माहात्म्यं महदद्भुतं ॥११॥ शुभंयवो नमत्येत्याहंयवोऽपि प्रवादिनः । अवसानाद्भुतं चैतनिद्वंद्वं प्राभवं हि तत् ॥१२॥ यस्यां यस्यां दिशीश:स्यात्रिदशेशपुरस्सरः। तस्यां तस्यां दिशीशाः स्युः प्रत्युद्याताः सपूजनाः९३ यतो यतश्च यातीशस्तदीशाश्च समंगलाः । अनुपांत्या स्वसीमानः सार्वभौमो हि तादृशः॥१४॥ त्रिमार्गगा प्रयात्येवं देवसेना त्वमार्गगा। पवित्रयति भूलोकं पवित्रेण प्रभाविता ॥९५|| तस्यामेकः समुत्तुंगो भादंडो दंडसनिमः । अधरोपरिलोकांतः प्राप्तः प्रत्यागतांशुभिः ॥१६॥ त्रिगुणीकृततेजस्का स्थूलदृश्यः स्वतेजसा । मासते भास्करादन्याज्ज्योतिष्टमविरस्करः ॥१७॥ आलोको यस्य लोकांतव्यापी निःप्रतिबंधनः । ध्वस्तांधतमसो भास्वत्प्रकाशमतिगर्तते ॥९८॥ तस्यांतस्तैजसो भर्ता तेजोमय इवापरः । रश्मिमालिसहस्त्रैकरूपाकृतिरनाकृतिः ॥९९।। परितो भाति तूत्सर्पद्धनो भर्तमहोदयः । राशिगल्यूतविस्तारो युक्तोचायतनूद्भवः ॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org