________________
हरिवंशपुराणं ।
६९८
एकोनषष्टितमः सर्गः ।
देवयात्रामिमां दिव्यामन्वेत्य परमाद्भुतां । अद्भुतान्यर्थदृष्ट्यादि सर्वाण्यसुभृतां भुवि ।। ७५ ।। आवयोर्नैव जायंते व्याधयो व्यापयंति नः । इतयश्चाज्ञया भर्तुर्नेति तद्देशमंडले || ७६ ॥ अंधा पश्यंति रूपाणि श्रण्वंति वधिराः श्रुतिं । मूका स्पष्टं प्रभाषते विक्रयंते च पंगवः ॥ ७७ ॥ नात्युष्णा नातिशीताः स्युरहोरात्रादिवृत्तयः । अन्यच्चाशुभमत्येति शुभं सर्व प्रवर्धते ||७८॥ भूवधूः सर्वसंपन्न सस्यरोमांचकंचुका । करोत्यंबुजहस्तेन भर्तुः पादग्रहं मुदा ।। ७९ ।। जिनार्कपादसंपर्क प्रोत्फुल्लकमलावली । प्रथयंत्युद्वहंती द्यौरस्थायि सरसी श्रियं ॥ ८० ॥ स्वर्वेत्युक्ताः समात्मानः समदृष्टेश्वरेक्षिता । ऋतवः सममेधंते निर्विकंपा हि सेशिता ॥ ८१ ॥ निधानानि निधीरन्नान्याकराण्यमृतानि च । सूर्यते तेन विख्याता रत्नसूरिति मेदिनी ॥ ८२ ॥ अंते कौंतकजिद्वीर्यपराजितपराक्रमः । धर्मचक्रोर्जिते लोके नाकाले करमिच्छति ॥ ८३ ॥ कालः कालहरस्याज्ञामनुकूलभयादिव । प्रविहाय स्ववैषम्यं पूज्येच्छामनुवर्तते ॥ ८४ ॥ तत्र स्थावरकाः सर्वे सुखं विंदंति देहिनः । सैषा विश्वजनीना हि विभुता भुवि वर्तते ॥ ८५ ॥ जन्मानुबंधवैरो यः सर्वो हि नकुलादिकः । तस्यापि जायते जर्यं संगतं सुगताज्ञया ॥ ८६ ॥ गंधवाहो वहां भर्तुस्तत्कथाप्नुयात् । अचंडः सेहते सेवां शिक्षयन्ननुजीविनः ॥ ८७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org