________________
हरिवंशपुराणं।
एकोनषष्टितमः सर्गः। श्रीसनाथैस्ततः सर्वैर्भूयते पूर्णमंगलैः । मंगलस्य हि मांगल्या यात्रा मंगलपूर्विका ॥६२॥ शंखपद्मौ ज्वलन्मौलिसार्थीयौ सत्वकामदौ । निधिभूतौ प्रवर्तेते हेमरत्नप्रवर्षिणौ ॥६३॥ भास्वत्फणामणिज्योतिर्दीपिका भांति पन्नगाः । हतांधतमसज्ञानदीपदीप्त्यनुकारिणः ॥६॥ विश्वे वैश्वानरा यांति धृतधमघटोद्धताः । यद्धो याति लोकांतं जिनगंधस्य सूचकः ॥६५|| सौम्याग्नेयगुणादेव भक्ताः सोमदिवाकराः । स्वप्रभामंडलादर्शमंगलानि वहंत्यहो ॥६६॥ तपनीयमयैश्छत्रैर्नभस्तपनरोधिभिः । तपनीयैरेव सर्वत्र संरुद्धमिव दृश्यते ॥६॥ पताका हस्तविक्षेपैः संतज्य परिवादिनः । दयामूर्ता इवेशांशा नृत्यति जयकेतवः। ६८॥ वैभवी विजया ख्याति वैजयंती पुरेडिता । राजते त्रिजगन्नेत्रकुमुदामलचंद्रिका ॥६९।। भुवः स्वभूर्निवासिन्यो भुवि यद्व्यंतराःस्थिताः । नरीनृत्यंति देव्योग्रे प्रेमानंदरसाष्टकं ॥७०॥ आमंद्रमधुरध्वाना व्याप्तदिग्विदिगंतराः । धीरं नानद्यते नांदी जित्वा प्रावधनावली ॥७॥ जितार्को धर्मचक्रार्कः सहस्राराशुदीधितिः । यतिदेवपरीवारो वियतीति तमोपहः ॥७२।। लोकानामेकनाथोयमेतत नमतेति च । घुष्यते स्तनितर?षणामयघोषणा ॥७३॥ भप्रभावसदृशा सत्पूर्व व्याप्य दिक्पथे । प्रकुर्वति जयाहानं धावंतः प्रथमोत्तमाः ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org