________________
हरिवंशपुराणं ।
६९६
एकोनषष्टितमः सर्गः ।
I
1
कामशालाविशालाः स्युः कामदास्तत्र तत्र च । भागवत्यो यथा मूर्तीः कामदा दानशक्तयः॥ ४९ ॥ तोरणांतर भूतुंग समस्त कदलीध्वजैः । संछन्नोध्वा घनच्छायो रुणद्धि सवितु छविं ॥ ५० ॥ वनवासि सुरैर्वन्य मंजरीपुंजपिंजरः । स्वपुण्यप्रचयाकारः कल्प्यते पुष्पमंडपः ॥ ५१ ॥ युक्तो रत्नलताचित्रभित्तिभिः सद्वियोजनः । चंद्रादित्यप्रमारोचिमंडलोपांत मंडितः ॥ ५२ ॥ घटिकाकलनिहदीघंटानादैर्निनादयन् । दिशो मुक्तागुणा मुक्तं प्रांत मध्वांततांतरः || ५३ ॥ सद्गंधाकृष्टसंभ्रांतभृंगमालोलसद्युतिः । वियतीशय शोमूर्तवितानच्छविरक्ष्यते ॥ ५४ ॥ स्वोत्तंभस्तंभसंकाशैः स्थूलमुक्तागुणोद्भवैः । चतुर्भिर्दामभिर्भाति विद्रुमांतांतराचितैः ॥ ५५ ॥ तस्यांतस्थो दयामूर्तिः प्रयाति दयिताहितः । हिताय सर्वलोकस्य स्वयमशिः स्वयंप्रभः ||५६ || पश्यत्यात्मभवान् सर्वे सप्त सप्त परापरान् । यत्र तद्भासतेऽत्यर्क पश्चाद्भामंडलं प्रभोः ॥ ५७ ॥ त्रिलोकीवांतसाराभात्युपर्युपरि निर्मला । त्रिछत्री सा जिनेंद्र श्रीस्त्रैलोक्येशित्वशंसिनी ॥ ५८ ॥ चामराण्यभितो भांति सहस्राणि दमेश्वरं । स्वयंवज्यानि शैलेंद्रं हंसा इव नभस्तले ॥५९॥ ऋषयोनुव्रजंतीशं स्वर्गिणः परिवृण्वते । प्रतीहारः पुरो याति वासवो वसुभिः सह ॥ ६०॥ ततः केवललक्ष्मीतः प्रतिपाद्या प्रकाशते । साकं शच्या वि(त्रि ) लोकोरुर्भूतिर्लक्ष्मीः समंगला ॥ ६१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org