________________
हारेबंशपुस ।
६९५
एकोनषष्टितमः सर्गः। उद्यतस्तस्य लोकार्य राजराजपुरस्सरः । राजते राजयन्मार्ग पुरोमानोर्यथारुणः ॥३७॥ पदवीजातरूपांगी स्फुरन्मणिविभूषणा । श्लाघ्यते सा सती भत्रे स्वभत्रे भामिनी यथा ॥३८॥ परितः परिमार्जति मरुतो मधुरे-रणैः । अवदातक्रियायोगैः स्वां वृत्ति साधवो यथा ॥३९॥ अभ्युदंति सुरास्तत्र गंधांभोंबुदवाहनः । स्फुरत् सौदामिनीदीप्तिभासिताखिलदिङ्मुखाः॥४०॥ मंदारकुसुमैमत्तभ्रमद्भमरचुंबितैः । नंद्यते सुरसंघातैर्मोर्गो मार्गविदुधमे ॥४१॥ ज्योतिर्मडलसंकाशैः सौवर्णरसमंडलैः । सुलग्नैः शोभते मार्गो रत्नचूर्णतलोचितैः ॥४२॥ गुह्यकाश्चित्रपत्राणि चिन्वते कुंकुमै रसैः । चित्रकर्मकृतां चित्रां स्वामाचिक्षासवो यथा ॥४३॥ कदलीनालिकेरेशुक्रमुकाद्यैः क्रमस्थितैः । संपरैर्मागसीमापि रम्याऽऽरामायते द्वयी ॥४४॥ तत्राक्रीडपदानि स्युः सुंदराणि निरंतरं । यत्र दृष्टा स्वकांताभिराक्रीडते नरामराः ॥४५॥ भोग्यान्यपि यथा कामं भोगिनां भोगभूमिवत् । सर्वाण्यन्यूनभूतीनि संभवत्यंतरेऽतरे ॥ ४६ ।। योजनत्रयविस्तारो मार्गो मार्गातयोयोः । सीमानौ द्वावपि ज्ञेयो गव्यूतद्वयविस्तृतौ ।। ४७ ॥ तोरणैः शोभते मार्गः करणैरिव कल्पितैः । दृष्टिगोचरसंपन्नैः सौवर्णैरष्टमंगलैः ॥४८॥
१ अनून इति स पुस्तके।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org