________________
हरिवंशपुराणं ।
६९४
एकोनषष्टितमः सर्गः ।
विलंबितसहस्रार्कयुगपत्पतनोदयौ । नमतानंदिता लोकनामोन्नामैः पदे पदे ॥ २४ ॥ शूराणां भूतलस्पर्शिमकुटैर्बहुकोटिभिः । भूः पुरःसोपहारेव शोभतेंऽबुजकोटिभिः ॥ २५ ॥ लौकांतिका ः पुरो यांति लोकांत स्थापितेजसः । लोकेशस्य यथालोकाः पुरोगा मूर्तिसंभवाः ॥ २६ ॥ पद्मा सरस्वतीयुक्ता परिवारात्तमंगला । पद्महस्ता पुरो याति परीत्य परमेश्वरं ||२७|| प्रसीदेत इतो देवेत्यानम्य प्रकृतांजलिः । तद्भूमिपतिभिः सार्धं पुरो याति पुरंदरः ||२८|| एवमीशस्त्रिलोकेशपरिवारपरिस्कृतः । लोकानां भूतये भूतिमुद्वहन् सार्वलौकिकीं ||२९| पद्मकेतुः पवित्रात्मा परमं पद्मयानकं । भव्य चैकसबंधुर्यदारोहति तत्क्षणात् ||३०|| जय नाथ जय ज्येष्ठ जय लोकपितामह । जयात्मभूर्जयात्मेश जय देव जयाच्युत ॥३१॥ जय सर्वजगधो जय सद्धर्मनायक । जय सर्वशरण्य श्रीर्जय पुण्यजयोत्तम ||३२|| इत्युदीर्णासकृद्धोषोरुंघानो रोदसी स्फुट: । जयत्युच्चेतिगंभीरो घनाघनघनध्वनिः ||३३|| स देवः सर्वदेवेंद्रव्याहता लोकमंगलः । तन्मौलिभ्रमरालीढभ्रमत्पादपयोरुहः ||३४|| तत्पयोरुहवासिन्या पद्मयानंदमज्जगत् । विरहत्परमोद्भूतिर्भूतानामनुकंपया ॥३५॥ देवमार्गोत्थिते दिव्ये विन्यस्यान्जे पदांबुजं । स्वच्छांभोवाखां भोजप्रतिबिंबश्चिणि प्रभुः ॥ ३६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org