________________
हरिवंशपुराणं।
द्वात्रिंशः सर्गः। मित्रश्रियं प्रगृह्यागानगरं तिलवस्तुकं । कन्या पंचशतं ग्राही पुरं गिरितटं गतः ॥ ३२ ॥ ततः सोमश्रिया युक्तश्चंपां प्राप महापुरीं । अतोऽमात्यसुतां निन्ये सह गंधर्वसेनया ॥ ३३ ॥ पुरे विजयखेटे च सूनुमक्रूरदृष्टिकं । दृष्ट्वा विजयसेनां स निन्ये कुलपुरं ततः ॥ ३४ ॥ पद्मश्रियमुपादाय तथैवावंतिसुंदरीं । सूरसेनां सपुत्रां च जरां जीवयशोन्वितां ॥ ३५ ॥ गृहीत्वाऽन्याः स्वभार्याः स वसुदेवः ससंमदः । आययौ प्रमदं प्राप्तो विमानेनाशुगामिना ॥३६॥ आससाद विमानं तच्चारूसंगीतसंगतं । आशु शौर्यपुरं सूर्यविमानमिव भास्वरं ॥ ३७॥ ततो धनवती देवी समुद्रविजयं स्वयं । प्राग् दृष्टया वर्धयत्तुष्टया वसुदेवागमाप्तया ॥ ३८ ॥ कारयित्वा ततः पोरैः पुरशोभां नृपो मुदा । निर्ययौ बंधुभिः सार्धं तस्याभिमुखमाहतैः ॥३९॥ सोऽवतीर्य विमानायादग्रजान् गुरुबांधवान् । प्रणनाम प्रियायुक्तः प्रणतः प्रणयात् परैः ॥४०॥ देव्यः शिवादयो ननं सयोषं साश्रुलोचनाः । तमाश्लिष्याशिषो भूयः खेऽविश्लेषफला ददुः ॥४१॥ सन्मानितयथायोगजनताजनितादरः । स रेमे रोहिणीशोऽस्मिन् बंधुसिंधुहितोदयः ।। ४२ ॥ समुद्रविजयं दृष्ट्वा वसुदेवं च देवता । ययौ वेगवती प्रीता निजं स्थानं हितोद्यता ॥ ४३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org