________________
हरिवंशपुराणं ।
४१४
द्वात्रिंशः सर्गः। ताभ्यां जिगमिषोस्तस्य शीघ्रं शौर्यपुरं पुरं । चक्रे वनवती देवी विमानं रत्नभास्वरं ॥ १९ ॥ पिता कांचनदंष्टोऽथ परिवारं ददौ परं । समस्तं बालचंद्राया वेगवत्याश्च सोऽग्रजः॥ २० ॥ कामगेन विमानेन सोऽनेन वनितासखः । अरिंजयपुरं गत्वा विद्युद्वगं निरीक्ष्यत ।। २१ ॥ प्रियां मदनवेगां तामनावृष्णि च देह । आदायाऽऽशु विमानेन तेनैव वियदुधयौ ।। २२ ।। पुरं गंधसमृद्धं द्राक् श्रीसमृद्धमवाप्य सः । सुतां गांधारराजस्य पश्यति स्म प्रभावतीं ॥ २३ ॥ समारोप्य विमाने तो परिवारसमन्वितां । प्राप्तः प्राप्तमहाहर्षः सहसाऽसितपर्वतं ॥ २४ ॥ सिंहदंष्ट्रात्मजां दृष्ट्वा स नीलयशसं प्रियां । तत्रारमत्तया चित्तं प्रवियुक्तं समेतया ॥ २५ ॥ तामप्यादाय संप्राप्तः किन्नरोद्गीतमत्र च । नीलोत्पलदलश्यामां कामं श्यामाममानयत् ॥ २६ ॥ श्यामामादाय संप्राप्तः श्रावस्तीमनयत्ततः । प्रियंगुसुंदरी शौरिस्तां च बंधुमती प्रियां ॥ २७ ।। महापुरात्समादाय सोमश्रियमसौ प्रियां । इलावर्धनतो निन्ये मान्यां रत्नावतीं च तां ।। २८ ।। नगरे भद्रिलाभिख्ये गृहीत्वा चारुहासिनीं । पौंडूं संस्थाप्य तत्रैव गत्वा जयपुरं ततः ॥ २९ ॥ अश्वसेनामुपादाय गत्वा शालगुहं पुरं । पद्मावती समादाय वेदसामपुरं ययौ ॥ ३० ॥ कपिलं तत्र पुत्रं स्वमभिषिच्य ततोऽपि च । गृहीत्वा कपिलां प्रापदचलग्राममत्र च ।। ३१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org