________________
हरिवंशपुराणं।
४१३
द्वात्रिंशः सर्गः। इति पत्या समादिष्टं श्रुत्वा स्वप्नफलं शुभं । हारिणी रोहिणी हृष्टा शिश्रिये श्रियमैंदवीं ॥६॥ च्युत्वा कल्पान्महाशुक्रान्महासामानिकः सुरः । गर्भेऽभूदिह रोहिण्या धरण्या इव सन्मणिः ॥७॥ ततः पूर्णेषु मासेषु सुखं संपूर्णदोहला । साऽसूत सुतमुक्षेषु शुभेषु शशिसंनिभं ॥ ८ ॥ तस्य जन्मोत्सवं दृष्ट्वा जरासंधपुरःसराः । यथास्थानं ययुः प्रीताः पार्थिवाः कृतपूजनाः॥९॥ अभिरामः स रामाख्यां प्रख्याप्य पृथिवीतले । वर्द्धते वर्द्धयन् प्रीति पित्रोर्बधुजनस्य च ॥१०॥ श्रीमंडपस्थितान् सर्वानेकदा रौधिरास्पदे । समुद्रविजयाद्यांस्तान् वसुदेवहितोद्यतान् ॥ ११ ॥ खावतीर्णाभिनंद्यैका दिव्या विद्याधरी श्रिता । वसुदेवमितः प्राह सुखासनकृतासना ॥ १२ ॥ देव ! वेगवती पत्नी बालचंद्रा च मे सुता । पादयोस्तव संपत्य वांछति प्रियदर्शनं ॥ १३ ॥ कुमारी त्वद्गतप्राणा बालचंद्राऽवतिष्ठते । गत्वा तां त्वं विवाह्याऽऽशु कुरु तच्चित्तनिवृति ॥१४॥ तदाऽऽकण्य वचस्तेन दृष्टिज्येष्ठ समर्पिता । अभिप्रायविदा तेन लध्येहीति विसर्जिताः ॥ १५॥ तमादाय गता साऽपि पुरं गगनबल्लभं । समुद्रविजयाद्याश्च ययुः शौर्य पुरं नृपाः ॥ १६ ॥ भायाँ वेगवतीं दृष्ट्वा शौरिगंगनबल्लभे । बालचंद्रामुवाहात्र पूर्णचंद्रसमाननां ।। १७ ॥ नववध्वा तया साद्रं वेगवत्या च हृद्यया । रममाणोऽवसत्तत्र दिनानि कतिचित्सुखी ॥ १८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org