________________
हरिवंशपुराणं ।
४१२
द्वात्रिंशः सर्गः। प्रादुर्भूतसमस्तभूतलमहाभूपाललोकैः समं
संभूयाद्भुतविक्रमैकशरणप्राणै रणप्रांगणे ॥ प्रारब्धोऽप्यतिलुब्धबुद्धिभिरभूज्जय्यो न यद्दोःसखः
शौरिः शौर्यगिरिर्जिनोक्ततपसस्तप्तस्य तत्प्राभवं ।। १३८ ॥ इति “ अरिष्टनमिपुराणसंग्रहे " हरिवशे जिनसेनाचार्यकृतौ रोहिणीस्वयंवर
भ्रातृसमागमवर्णनो नाम एकत्रिंशः सर्गः ।
द्वात्रिंशः सर्गः। अथ सा रोहिणी भी विचित्रे शयनेऽन्यदा । प्रसुप्ता चतुरः स्वप्नान् ददर्श शुभसूचिनः॥१॥ रुद्रं चंद्रं समच्छायं गजेंद्रं मंद्रगर्जितं । समुद्रं सांद्रनिर्घोषं महींद्रोच्चैर्महोर्मिकं ॥ २॥ चंद्रं चंद्रमुखी पूर्ण दृष्ट्रा पूर्णमनोरथा । कुंदशुभ्रं मृगेंद्रं सा ददशास्यप्रवेशिनं ॥३॥ विबुद्धा च प्रभाते तान् विबुद्धांबुजलोचना । पत्ये न्यवेदयत्सोऽस्या इति स्वप्नफलं जगौ ॥४॥ उत्पत्स्यते सुतः क्षिप्रं धीरोऽलंघ्यः शशिप्रभः । एकवीरो भुवो भर्ता प्रिये ! ते जनताप्रियः॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org