________________
___४११
हरिवंशपुराणं।
एकत्रिंशः सर्गः । अनुकूलमिघु राजा तमादायेत्यवाचयत् । अज्ञातो निर्गतो योऽसौ महाराज! तवानुजः ॥१२६॥ सोऽयं वर्षशतेऽतीते संप्राप्तः स्वजनांतिकं । पादप्रणाममद्यार्य ! वसुदेवः करोति ते ॥१२७॥ भ्रातृस्नेहसमुद्रेकात्समुद्रविजयस्ततः। क्षिप्तचापो रथातूर्णमुत्तीर्याप निजानुजं ॥१२८॥ उत्तीर्णः स्यंदनादाशु वसुदेवोऽपि दूरतः। प्रणतः पादयोस्तेन दोामालिंग्य चोद्भतः ॥१२९।। आश्लिष्य रुदतोोत्रोः साश्रुलोचनयोस्तयोः । प्राप्याक्षुभ्यादयः सर्वे कंठलग्नास्ततोऽरुदन्॥१३०॥ श्वसुरास्तस्य यावंतः सपुत्रास्तत्रसंगताः । बांधवाश्चापरे लग्ना रुरुद् रणरंगगाः ॥१३१॥ जरासंघादयस्तुष्टा दृष्ट्वा भ्रातृसमागमं । शशंसू रोहिणी कन्यां तद्भातृपितृबांधवाः ॥१३२॥ यथास्वं शिबिरस्थानं दिनांते ते ययुनृपाः । वसुदेवकथाशक्तो निशा निन्युदिनान्यपि ॥१३३॥ ततस्तिथौ प्रशस्तायां रोहिणीचंद्रसंग्रमे । रोहिणीमुपयेमेऽसौ समुद्रविजयानुजः ॥ १३४ ॥ दृष्टा विवाहमुर्वीशास्तुष्टिपुष्टिसमन्विताः । वर्ष तस्थुर्जरासंधसमुद्रविजयादयः ॥१३५॥ कृतसाहायकः संख्ये वसुदेवः स पूजितः । आपृच्छ्य प्रययौ प्रीतो निजं दधिमुखः पदं ॥१३६॥ वरो नववधूहारिवक्रांभोजमधुव्रतः । न सस्मार स्मराशक्तः पूर्वभुक्तबधूलताः ॥१३७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org