________________
हरिवंशपुराणं ।
४१०
एकत्रिंशः सर्गः ।
समुद्रविजयस्त्वं चेत्संग्रामविजयस्त्वहं । न चेत्प्रत्येषि तत्क्षिप्रं क्षिप संधाय सायकं ॥। ११४ || इत्युक्ते मुक्तमाध्यस्थो वैशाखस्थानमास्थितः । संधाय शरमाकृष्य विव्याध क्रोधतो नृपः ।। ११५ ।। प्रतिक्षिप्तेन स क्षिप्रमाशुगेन तमाशुगं । दूरादेव च चिच्छेद वैशाखस्थानमंडितः ॥ ११६ ॥ मुक्तान्मुक्तान्नृपेणासाविषूनिषुभिराहवे । प्रत्युन्मुक्तैरतिक्षिप्रं दूरादेव निराकरोत् ॥११७॥ वायव्यवारुणाद्यैस्तौ दिव्यास्त्रैरस्त्रकोविदौ । युयुधाते नृदेवानां साधुकारैः स्तुतौ चिरं ॥ ११८ ॥ ज्येष्ठो मुमोच यान्वाणान् योद्धुसारथिवाजिनां । तान् कनिष्ठोऽच्छिनद्वाणैर्वैनतेय इवोरगान् ।। ११९ ।। एकैकं स त्रिधा छित्त्वा क्षुरप्रं भ्रातृयोजितं । युवा विव्याध तस्यास्त्रै रथसारथवाजिनः ॥ १२० ॥ दृष्ट्वा कौशलं तस्य शशंसुरवनीश्वराः । शिरष्कंपांगुलिस्फोटसाधुवादविधायिनः ॥१२१॥ ज्यायानज्ञातसंबंधः पुनः संधाय सायकं । दिव्यमस्त्रसहस्राणां सहस्रममुचद् रुषा ॥ १२२ ॥ अस्त्रं ब्रह्मशिरः शीघ्रमस्त्रच्छादनमप्यसौ । युवा क्षिप्त्वाऽच्छिनद्रौद्रं ज्यायसा क्षिप्तसायकं ।। १२३ ।। परं कौशलमस्त्रेषु वसुदेवस्य यद्रणे । चिच्छेदास्त्राणि चित्राणि ररक्ष च निजाग्रजं ॥। १२४ ।। इत्थं कृतरणक्रीडः कनीयान् ज्यायसे ततः । प्रजिघाय घनस्नेहः स्वनामांकं निजं शरं ।। १२५ ।। १' शनै:' इति ख पुस्तके ।
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org