________________
हरिवंशपुराणं।
४०९
एकत्रिंशः सर्गः। दृष्ट्वा ज्येष्ठरथं दूरात् कनीयान् सारथिं जगौ । ज्यायांसं मम जानीहि समुद्रविजयं त्विम॥१०२॥ मंदमत्र गुरौ वाह्यो रथो दधिमुख ! त्वया । सापेक्षं हि मया योध्यमनेन गुरुणा रणे ।। १०३ ॥ यथोद्दिष्टं ततस्तेन रथः सारथिना रणे । नोदितोऽपि ययौ मंदः स्यंदनं गुधिष्ठितं ॥१०४॥ निजसारथिमाजिस्थः समुद्रविजयो जगौ । भद्र ! योधमिमं दृष्टा सस्नेहं मे मनः कुतः॥१०५॥ दक्षिणाक्षिभुजास्पंदो बंधुसंबंधगंधनः । युधि बध्यस्य सान्निध्ये वद संबध्यते कथं ॥१०६॥ सुनिमित्तविसंवादो नानुभूतश्च जातुचित् । विरुद्धदेशकालत्वात्संवादोऽपि न युज्यते ॥१०७॥ इत्युक्ते सोऽवदत् स्वामिनभ्यमित्रमितस्य ते । अवश्यं बंधुसंबंधो जितजेयस्य जायते ॥ १०८ ॥ परै राजन्नजय्यस्य राजलोकस्य सविधौ । परस्य विजये पूजां राजराजादवाप्स्यसि ॥१०९।। सोऽभिनंदिततद्वाच्यः कार्मुकी तं सकार्मुकं । शरधेः शरमुत्य जगादोभतसायकं ॥११०॥ भो धीर ! ते यथादृष्टं मधे धनुषि कौशलं । तथा निर्वहणं तस्य त्वं कुरुष्व ममाग्रतः॥१११॥ शोर्यशैल ! तवोत्तुंगमानशंगमनावृतं । आवणोमि शरैर्मेधैः समुद्रविजयस्त्वहं ॥११२।। कुमारः स्वरभेदेन जगौ किं नो बहूदितैः । आवयोरिह राजेंद्र ! रणे व्यक्तिर्भविष्यति ॥११३॥
१ जितये यस्य जायते । इति क.ग पुस्तकयोः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org