________________
हरिवंशपुराणं ।
४०८
एकत्रिंशः सर्गः । वसुदेवोऽर्द्धचंद्रेण तावच्छित्त्वाऽस्य तद्धनुः । चक्रे हिरण्यनाभं च त्वरयाऽश्वरथे स्थिरे ॥८९॥ छाद्यमाने तथा पौंड्रे शौरिणा शरवर्षिणा । ववृषुः शरसंघातानेकीभूय बहुद्विषः ॥९०॥ शरैः शरान् निवार्या सौ विभेद निशितैः शरैः । शत्रु शत्रुवितीर्णोच्चैः साधुकारः पदे पदे ।।९१॥ अथ साधुनृपैस्तत्र न्यायविद्भिरितीरितं । न दृष्टव्यमिदं युद्धमेकस्य बहुभिः सह ॥९२॥ ततो जगी जरासंधो धर्मयुद्धदिदृक्षया । अनेन सह कन्यार्थमेकेको युध्यतामिति ॥९३॥ ततः शत्रुजयो लनः शौरिणा योद्धुमुधतः । शेषास्तु प्रेक्षका जाता क्षत्रियाः क्षत्रमत्सराः॥१४॥ शरान् शत्रुजयोरिक्षप्तान शौरिः प्रक्षिप्य दूरतः । तं ध्वस्तरथसन्नाहं विह्वलीकृत्य मुक्तवान् ।।९५।। दत्तवक्त्रस्ततो दत्तचिरयुद्धो मदोद्धतः । विरथीकृत्य निर्मुक्तो निःसारीकृतपौरुषः ॥९६॥ रिपुं कालमुखं प्राप्तं रणे कालमिवोद्धतं । प्राणशेषमसौ कृत्वा विससर्जोर्जितो यदुः ॥९७॥ शल्यं रथेन संप्राप्तं तीक्ष्णसायकमोचकं । जुंभणास्त्रेण रौद्रेण बबंधांधकवृष्णिजः ॥९८॥ समुद्रविजयं प्राह जरासंधस्ततो द्रुतं । त्वं रास्य रणे दर्प पार्थिवास्त्रविशारदः ॥९९॥ अपि न्यायविदुत्तस्थौ स राजा राजशासनात् । युद्धे प्रायोऽनुवर्तते प्रभुंन्यायविदोऽपि हि॥१०॥ समुद्रविजयादेशात्पुनः सारथिना रथः । दधावोच्चैर्ध्वजच्छत्री वसुदेवं रथं प्रति ॥१०१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org