________________
हरिवंशपुराणं।
४०७
एकत्रिंशः सर्गः । असिचक्रगदाघातरक्तधारांधकारिते । निरुद्धः पादसंचारो रणे तेजोनिधेरपि ॥७६।। पतद्भिर्मत्तमातंगैः पर्वतैरिव सर्वतः । नरैरवै रथै?षः शीर्यमाणमहानभूत् ॥७७॥ अथ सेनामुखं खिन्नं चिरं कृतरणं निजं । शौरिहिरण्यनाभश्च साधारयितुमुद्यतौ ॥७८॥ तौ दृष्टिमुष्टिसंधानप्रयोगानभिलक्षितौ । शनैश्छादयितुं लग्नौ परं योधानितस्ततः ॥७९॥ न नागो न रथो नाश्वो न नरो वा महाहवे । यो न जर्जरितस्ताभ्यां मुंचद्भयां निशितान् शरान् ॥८॥ विट्प्रयुक्तशरासारं वायव्यास्त्रेण सोकिरत् । शौरिमाहेंद्रवाणेन निचकर्त धनूंष्यपि ॥८॥ छत्राणि शशिशुभ्राणि शत्रूणां स यशांसि च । सुतुंगान्मूर्धजान्मान्यान् शरपातैरपातयत् ।।८२॥ युध्यमाने तथा तस्मिन् वीरे वीरभयानके । हिरण्यनाभवीरेण रणे पौंड्रः पुरस्कृतः ॥८३।। कुमारयोस्तयोस्तत्र सुमहारथर्तिनोः । शरैयुद्धमभूद्रौदं यथा सिंहकिशोरयोः ॥८४! अपातयद् ध्वजं छत्रं रौधिरिः सारथिं रिपोः । रथस्य तुरगान् वेगादध्यक्षांश्च शरैः शितैः॥८५॥ ततश्चंडरुषा पौंड्रो वज्रदंडनिभैः शरैः । कृतानुरूपमस्यारेः स चकार तदेव हि ॥८६॥ ततो हिरण्यनाभोजपे विभेद कवचं द्विपः । केतुं छत्रं च वाणोधै रथसारथिवाजिनः ॥८॥ विरथीकृत्य पौंड्रोऽपि तमाशु शितिसायकैः। सद्यः प्राणहरं तस्य संपत्ते यावदाशुगं ।।८८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org