________________
६९२
हरिवंशपुराणं ।
एकोनषष्टितमः सर्गः। एकोनषष्टितमः सर्गः। विहाराभिमुखेगाग्राज्जिनेंद्रेऽवतरिष्यति स्वर्गाग्रादिव भूलोकं समुद्धर्तुं भवोदधेः॥१॥ गृह्यतां गृह्यतां काम्यं यथाकाममिहार्थिमिः । इति नित्यं धनेशेन घुष्यते कामघोषणा ॥२॥ कामदा कामवद्भूमिः कल्पते मणिकुट्टिमा । मांगल्यविजयोद्योगे विभोः किं वा न कल्पते ॥३॥ महाभूतानि सर्वाणि कर्तुर्भूतहितोद्यमे । सर्वभूतहितानि स्युस्तादृशी खलु सार्वता ॥४॥ प्रावषेण्यांबुधारेव वसुधारा वसुंधरां । दिवोन्वर्थाभिधानत्वं नयती न्यपतत्पथि ॥५॥ प्रामुख्यंति सुराः सद्यः प्रणामचलमोलयः । भासा व्याप्य दिशो भतुःप्रभाकारानुगिणः॥६॥ ये द्वे पूर्वोत्तरे पंक्ती हेमांबुजसहस्रयोः । सहस्रपत्रं तत्पूतं भुवः कंठे गुणाकृतिः ॥७॥ पद्मरागमयं भास्वच्चित्ररत्नविचित्रितं । प्रवृत्तप्रतिपत्रस्थपद्मभागमनोहरं ॥८॥ सहस्राक्षसहस्राक्षिभुंगावलिनिषेवितं । देवासुरनरालोकमधुपापानमंडलं ॥९॥ पद्मोद्भासि परं पुण्यं पायानं प्रकाशते । सद्यो योजनविष्कम तचतुर्भागकार्णकं ॥१०॥ महिमाग्रेसरे साष्टमूर्तिस्पष्टगुणश्रियः । वसवोष्टौ पुरोधाय वासवं वरिवस्यया ॥११॥
१ पर्वतामात्-गिरनारशिखरतः । २ प्रादुष्यति इति ख पुस्तके ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org