________________
हरिवंशपुरा।
अपंचाशः सर्गः । जीवादिसप्ततत्वानामेतेषां ज्ञानसंगतं । श्रद्धानं तच्चरित्रं च साक्षान्मोक्षस्व साधनं ।। ३०४ ॥ भवेनैकेन मार्गस्थः केचित्सप्ताष्टभिः परे। भुक्तस्वर्गसुखा भव्याः सिध्यति ध्यानिनः सदा॥३०५॥ इति श्रुत्वा जिनेंद्रोक्तं मोक्षमार्गमनाविलं । प्रणेमुादश गणाः प्रकृत्यांजलयो विभुं ॥३०६ ॥ ते सम्यग्दर्शनं केचित्संयमाऽसंयम परे । संयम केचिदायाताः संसारावासमीरवः ।। ३०७ ॥ द्वे सहस्र नरेंद्रास्ते कन्याश्च नृपयोषितः । सहस्राणि बहून्यापुः संयमं जिनदेशितं ॥ ३०८ ॥ शिवा च रोहिणी देवी देवकी रुक्मिणी तथा । देव्योन्याश्च सुचारित्रं गृहिणां प्रतिपेदिरे॥३०९॥ यदुभोजकुलप्रष्टा राजानः सुकुमारिकाः । जिनमार्गविदो जाता द्वादशाणुव्रतस्थिताः ॥३१०॥ कृतपूजाः सुरैरिंद्राः प्रणम्य जिनभास्करं । प्रयाताः स्वास्पदं रामकेशवाद्याश्च यादवा॥३१॥ विश्वासा विशदाः शरद्विदधती धौतं पयोदैस्तथा विस्पष्टग्रहतारकाकुसुमितं रम्ब नभोमंडलं । बंधूकावसु सप्तपर्णसुरभिप्रत्यग्रपुष्पांजलिं मुंचंती जिनपादयोरुपगता मक्तेव लोकत्रयी ॥३१२।। इत्यरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृतौ श्रीनेमिनाथधर्मोपदेशवर्णनो नाम अष्टपंचाशः सर्गः । १'प्रकृताञ्जलयो' इति ख पुस्तके ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org