________________
हरिवंशपुराणं ।
६९०
अष्टपंचाशः सर्गः ।
I
अशुभप्रकृतीनां तु परिणाम विशेषतः । प्रकृष्टीनुभवोन्यासां निकृष्टोनुभवस्तदा ॥ २९९ ॥ स्वमुखेनानुभूयते मूलप्रकृतयोऽखिलाः । उत्तरास्तुल्यजातीयाद्वयान्महायुषी विना ॥ २९२ ॥ कर्मणोऽनुभवातस्मात्तपसश्चापि निर्जरा । विपाकजा तु तत्रैका परा चाप्यविपाकजा ॥ २९३ ॥ संसारे भ्रमतो जंतोः प्रारब्धफलकर्मणः । क्रमेणैव निवृत्तिर्या निर्जरासौ विपाकजा ॥ २९४ ॥ यत्तूपायविषाच्यं तदाम्रादिफलपाकवत् । अनुदीर्णमुदीर्याशु निर्जरा त्वविपाकजा ॥ २९५॥ सर्वेश्वात्मप्रदेशेष्वनंतानंत प्रदेशकाः । घना गुलस्यासंख्येयभागे क्षेत्रावगाहिनः ॥ २९६॥ एकद्वित्र्यादिसंख्येयसमयस्थितयः सदा । प्रदेशबंध संतानप्यास ते कर्मपुद्गलाः ।। २९७ ॥ शुभायुर्नामगोत्राणि सद्वेद्यं च चतुर्विधः । पुण्यबंधोन्यकर्माणि पापबंध ः प्रपंचितः ॥ आस्रवस्य निरोधस्तु संवरः परिभाष्यते । स भावद्रव्यभेदाभ्यां द्वैविध्येन निरुच्यते ॥ २९९ ॥ क्रियाणां भवहेतूनां निवृत्तिर्भावसंवरः । तत्कर्मपुद्गलादानविच्छेदो द्रव्यसंवरः ॥ ३०० ॥ त्रिसख्या गुप्तयः पंचसंख्याः समितयस्तथा । दशद्वादशधर्मानुप्रेक्षा चारित्रपंचकं ॥ ३०९ ॥ द्वाविंशतिभिदा भिन्न परीषहजयोऽपि च । हेतवः संवरस्यैते सप्रपंचाः समन्विताः ॥ ३०२ ॥ बंध हेतोरभावाद्धि निर्जरातश्च कर्मणां । कार्त्स्न्येन विप्रमोक्षस्तु मोक्षो निरूपिणः ॥ ३०३ ॥
२९८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org