________________
हरिवंशपुराणं।
६८९
अष्टपंचाशः सर्गः। गोत्रमुच्चैश्च नीचैश्च तत्र यस्योदयात्कुले । पूजिते जन्म तदुच्चैनीचैनींचकुलेषु तत् ॥२७९॥ दीयते दातुकामेने लब्धुकामैनें लभ्यते । यदुदयात्प्रणीतौ तौ दानलाभांतरायको ॥२८०॥ भोक्तुंकामापि नोभुक्ते नोपभुक्तं तथेच्छुकः । यदेतातरायौ तौ ज्ञेयौ भोगोपभोगयोः ॥२८१॥ तथोत्सहितुकामो यो यतो नोत्सहते स हि । वीर्यातराय एषोऽसौ बंधः प्रकृतिलक्षणः ॥२८२।। स्थितिबंधविकल्पस्तु जघन्योत्कृष्टभेदवान् । अष्टानां कर्मणामेषां द्विविधोऽपि निरूप्यते ।।२८३।। ज्ञानदर्शनसंवृत्योर्वेदनीयांतराययोः । सागरोपमकोटीनां कोट्यस्त्रिंशत्परा स्थितिः ।।२८४॥ सप्ततिर्मोहनीयस्य विंशतिनामगोत्रयोः । संज्ञिपंचेंद्रियस्येयं ज्ञेया पर्याप्तकस्य तु ॥२८५॥ आयुषस्तु त्रयत्रिंशत्सागरोपमिका परा । स्थितिः सा वेदनीयस्य मुहूतो द्वादशावरा ॥२८६॥ साष्टावेव मुहूर्ता स्याज्जघन्या नामगोत्रयोः । पंचानामपि शेषाणां स्थितिरंतमुहर्तिका ॥२८७॥ कषायतीव्रमंदादिभावात्रवविशेषतः । विशिष्टपाक इष्टस्तु विपाकोनुभवोऽथवा ॥२८८॥ स द्रव्यक्षेत्रकालोक्तभवभावविभेदतः । विविधो हि विपाको यः सोनुभवः समुच्यते ॥२८९|| प्रकृष्टोनुभव: पुण्यप्रकृतीनां शुभो यथा । अशुभप्रकृतीनां तु निकृष्टोऽनुभवस्तथा ॥२९०॥
१ योऽनुभवश्च स उच्यते इति ख पुस्तके।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org