________________
हरिवंशपुराणं ।
६८८
अष्टपंचाशः सर्गः ।
उच्छ्रासकारणं यत्तु मतमुच्छ्रासनाम तत् । त्रिहायोगतिराकाशे शस्ताशस्तगतिप्रभुः ॥ २६६ ॥ तत्प्रत्येकशरीराख्यं नाम त्वत्र शरीरकं । सदैवात्मोपभोगस्य हेतुर्निर्वर्तते यतः || २६७ || साधारणमनेकेषामेकं यस्माच्छरीरकं । साधारणशरीराख्यं नाम तद्भोगकारणं || २६८ || उदयाद्यस्य जीवानां द्वींद्रियादिषु जन्म यत् । त्रसनाम विपर्यत्वं स्थावराख्यं तु नाम तत् ॥ २६९ ॥ सर्वं प्रीतिकरो यस्मात्प्राणी सुभगनाम तत् । यतोऽप्रीतिकरोन्येषां नाम्ना दुर्भग नाम तत्॥ २७० ॥ मनोज्ञस्वरनिर्वृत्तिर्यतः सुस्वरनाम तत् | अनिष्टस्वर हेतुर्यत्प्रोक्तं दुःस्वरनाम तत् || २७१ || यतस्तु रमणीयत्वं शुभनाम तदीरितं । अतिवैरूप्यहेतुश्च नामाशुभमशोभनं ॥ २७२॥ यत्र सूक्ष्मशरीरस्य कारणं सूक्ष्म नाम तत् । परवाधाकृतो हेतुः शरीरस्य तु वादरः || २७३ || यदाहारादिपर्याप्तिभेदनिवृत्तिकारणं । पर्याप्तिनाम् तन्नाम्ना षडिधमुदितं बुधैः ||२७४|| आहारस्य शरीरस्य प्राणापानेंद्रियस्य च । पर्याप्त्यभावहेतुस्तु भाषायां मनसोऽपरं || २७५ ।। कारणं स्थिरभावस्य स्थिरमस्थिरमन्यथा । नामादेयमनादेयं सप्रभाप्रभदेहकृत् ॥ २७६ ॥ हेतुः पुण्यगुणाख्यातेः यशःकीर्तिरितीर्यते । अयशःकीर्तिनामापि तद्विपयासकारणं ॥२७७|| हेतुस्तीर्थकरत्वस्य सतीर्थकरनाम तत् । नाम्नः प्रकृतिभेदास्त्रिनवतिस्तूचरोचराः ॥२७८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org