________________
हरिवंशपुराणं।
अष्टपंचाशः सर्गः । यतो भवति मुश्लिष्टमस्थिसंधानबंधनं । तत्संहरनामापि नाम्ना षोढा विभज्यते ॥२५४॥ तद्ववर्षभनाराचवज्रनाराचकीलकाः । सनाराचार्धनाराचा ससंप्राप्तसृपाटिकाः ॥२५५॥ स्पर्शनस्योदयाद्यस्य प्रादुर्भावेन भूयते । स्पर्शनाम भवत्येतत्प्रविभक्तमिवाष्टधा ॥२५६।। ख्यातं कर्कशनामैकं मृदुनाम तथापरं । गुरुनाम लघुस्निग्धरूक्षशीतोष्णनाम च ॥२५७॥ यद्धेतुरसभेदः स्याद्रसनाम तदीरितं । कट्टातिक्तकषायाम्लमधुरध्वनिनाम तत् ॥२५८॥ यस्योदयाद्भवेद्गंधो गंधनाम तदुच्यते । द्विविधं तत्तु बोद्धव्यं सुरभ्यसुरभीति च ॥२५९।। यद्धेतुवर्णभेदस्तद्वर्णनामाख्यपंचधा | कृष्णनीलत्वरक्तत्वपीतशुक्लत्वयोगतः ॥२६०॥ उदयाघस्य पूर्वात्मशरीराकृतिसंक्षयः । चतुर्गत्यानुपूर्वी तत्तथागुरुलघूदितं ॥२६१॥ यस्योदयादयोवत्तु गुरुत्वान्न पतत्यधः । न गच्छति पुमानूवं लघुत्वादकैतूलवत् ॥२६२॥ स्वकृतो बंधनाद्यैःस्यादुपधातो यतस्तु तत् । उपघातं समुद्दिष्टं परघातं पराद्वधः ।।२६३॥ यदीयोदयनिर्वृत्तं भवत्यापतनं महत् । आदित्यवद्वर्तमानं मतं सातपनाम तत् ।।२६४॥ यद्धेतु?तनं देहे वेद्यमुद्योतनाम तत् । चंद्रखद्योतकाद्येषु वर्तमानं यदीक्षते ॥२६५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org