SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ ६८६ हरिवंशपुराण। अष्टपंचाशः सर्गः । नारकं नरकोद्भूतं तैर्यग्योनं च मानुषं । दैवं चायुभवेत्तेषु चतुर्विधमितीरितं ।।२४२॥ यदीयोदयतो जंतुर्भवांतरमियति सा । गतिश्चतुर्विधादेव नरकादिविभेदतः ॥२४३॥ आत्मनो नरकादित्वं यनिमित्तं प्रजायते । तत्स्यानरकगत्यादि गतिनाम चतुर्विधं ॥२४४॥ गतिष्वेकीगतार्था सा साम्येनाभ्यभिचारिणा । जातिस्तस्या निमित्तं तु जातिनामात्र पंचधा २४५ एकेंद्रियादिकां जातिमुदयाद्यस्य जंतवः । प्रयांत्येकेंद्रियाये तजातिनामाभिधीयते ॥२४६॥ शरीरपंचकस्यास्य निवृत्तिर्यस्य चोदयात् । औदारिकशरीरादि नाम पंचविधं तु तत् ॥२७॥ अंगोपांगविवेकःस्याच्छरीराणां यतस्तु तत् । त्रिधांगोपांगनामाख्यमौदारिकपुरस्सरं ॥२४८॥ चक्षुरादींद्रियस्थानप्रमाणे यदपेक्षया । यो निर्मापयतस्ते स्तो नाम्ना निर्माणनामनी ॥२४९।। कर्मोदयवशोपात्तपुद्गलान्योन्यबंधनं । शरीरेदयाद्यस्य भवेद्वंधननाम तत् ॥२५०।। यस्योदयाच्छरीराणां नीरंध्रान्योन्यसंहतिः। संघातनाम तन्नाम्ना संघाता नाम सत्तया ॥२५१।। शरीराकृतिनिवृत्तिर्यतो भवति देहिनां । संस्थाननाम तत् षोढा संस्थानकरणार्थतः ॥२५२॥ समादिचतुरस्रोतो न्यग्रोधपरिमंडलं। सातिसंस्थाननामापि कुब्जवामनहुंडकं ॥२५३।। १ सत्त्वयात् इति क पुस्तके, सत्वया इति ख पुस्तके पाठौ परन्तु नतौ सुष्ठू प्रतिभातः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy