________________
६८५
हरिवंशपुराणं ।
अष्ठपंचाशः सर्गः । शारीरं मानसं सौख्यं दुःखं चोदयते ययोः। स्यातां ते वेदनीये स्तः सातासाते यथाक्रम।।२३०॥ सम्यक्त्वं चापि मिथ्यात्वं सम्यग्मिथ्यात्वमित्यदः। दृश्यं दर्शनमोहस्य ह्युत्तरं प्रकृतित्रिकं ।।२३१॥ शुभात्मपरिणामेन निरुद्धस्वरसे स्थिते । मिथ्यात्वे श्रद्दधानस्य सम्यक्त्वप्रकृतिभवेत् ॥२३२॥ मिथ्यात्वे त्वर्धसंशुद्धे कोद्रवे मदशक्तिवत् । शुद्धाशुद्धात्मको भावः सम्यग्मिथ्यात्वमुच्यते ॥२३३॥ द्वेधा चारित्रमोहस्तु नोकषायकषायतः । नवधा नोकषायोत्र कषायाः पोडशोदिताः ॥२३४॥ उदयाद्यस्य हासाविर्भावो हास्यं तदुत्सुकः । यस्योदयादतिः सा स्यादरतिस्तद्विपर्ययः ॥२३५।। शोचनं यद्विपाकात्स शोक उद्वेगकृद्भयं । स्वदोषगोपनं यस्य जुगुप्सा सा जुगुप्सिता ॥२३६।। भावांस्त्रैणान्यतो याति स स्त्रीवेदोऽतिगर्हितः । पुनपुंसकवेदौ स्तः पौंसानपुंसकान् यतः ।।२३७॥ कषायाः क्रोधमानौ च मायालोभौ च धातकाः। सम्यक्त्वस्य सवृत्तस्य तत्रानंतानुबंधिनः।।२३८।। यदीयोदयतो ह्यात्मा प्रत्याख्यातुं न शक्नुयात्। हिंसादीत्युदयास्ते स्युरप्रत्याख्यानसंज्ञकाः २३९ यदीयोदयतो वृत्तं यथाख्यातं न जायते । ज्वलंतः संयमेनामा ख्याताः संज्वलनास्तु ते ॥२४॥ यदीयोदयतो जीवः संयम न प्रपद्यते । ते क्रोधमानमायाद्याः प्रत्याख्यानविनिःश्रुताः ॥२४०।।
१ हिंसादीन्युदयाः इति क पुस्तके।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org