________________
हरिवंशपुराणं ।
६८४
अष्टपंचाशः सर्गः। गूयते शब्द्यते गोत्रमुच्चैर्नीचैश्च यत्नतः । अंतरोयोंतरं मध्यं देयादेरेति यत्नतः ॥२१८॥ एकात्मपरिणामेन गृह्यमाणा हि पुद्गलाः । नानाकर्मत्वमायांति प्रभुक्तान्नरसादिवत् ॥२१९।। मूलप्रकृतिभेदोयमष्टभेदः प्रभावितः । उत्तरप्रकृतीनां तु भेदोऽतःपरमुच्यते ॥२२०॥ पंचधा ज्ञानावरणं नवधा दर्शनावृतिः । द्विधानुवेदनीयं स्यान्मोहोष्टाविंशतिःस्थितिः ॥२२१।। आयुश्चतुर्विधं नाम द्विचत्वारिंशदीरितं । द्विविधं गोत्रमुद्गीतमंतरायस्तु पंचधा ॥२२२।। मतिश्रुतावधिज्ञानमनःपर्ययकेवलैः । आकृत्येरावृतीः पंच ह्युत्तरप्रकृतीविदुः ॥२२३।।। द्रव्यार्थादेशतः शक्तिर्मनःपर्ययकेवली । अभव्योप्यस्ति यत्तत्स्थं ज्ञानावरणपंचकं ॥२२४॥ व्यक्तियोग्यत्वसद्भावापेक्षा भव्यस्य भव्यता । कैवल्यव्यत्ययोग्यत्वादभव्यस्य ह्यभव्यता ।२२५॥ चक्षुषोऽचक्षुषो दृष्टरवधेः केवलस्य च । चत्वार्यावरणान्येवं निद्राद्यैः पंचभिनव ॥२२६।। मदखेदविनोदार्थः स्वापो निद्राधिकत्वतः । उपर्युपरि तवृत्तिर्निद्रानिद्राभिधीयते ॥२२७।। श्रमादिप्रभवात्मानं प्रचलाप्रचलयत्यलं । सा पुनः पुनरावृत्ताः प्रचलाप्रचलाभिधा ॥२२८॥ स्त्यानगृद्धिर्ययास्त्याने स्वप्ने गृध्यति दीप्यते । आत्मा यदुदयाद्रौद्रं बहुकर्म करोति सा ॥२२९॥
१ अभव्येऽप्यस्ति इति क पुस्तके।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org