________________
हरिवंशपुराणे ।
६८३
अष्टपंचाशः सर्गः। अज्ञानं प्रकृति या ज्ञानावरणकर्मणः । दृश्यार्थादर्शनं दृश्या दर्शनावरणस्य सा ॥२०५।। सदसल्लक्षणस्यापि वेदनीयस्य कर्मणः । संवेदनं विदां वेद्यं प्रकृतिःसुखदुःखयोः ॥२०६॥ दृष्टा दर्शनमोहस्य तत्त्वाश्रद्धानमेव सा । तथा चारित्रमोहस्य महतोऽसंयमः सदा ॥२०७॥ प्रकृतिः प्रतिपन्ना तु भवधारणमायुषः । देवनारकनामादिकरणं नामकर्मणः ॥२०८॥ गोत्रस्योच्चैश्च नीचैश्च स्थानसंशब्दनं तथा । अंतरायस्य दानादिविघ्नानां करणं घनं ॥२०९॥ तदेवं लक्षणं कार्य यत्तत्प्रक्रियते ततः । प्रकृतिस्तत्स्वभावस्य तथैवाप्रच्युतिःस्थितिः ॥२१०॥ यथाजागोमहिष्यादिक्षीराणां स्वस्वभावतः। माधुर्यादच्युतिस्तद्वत्कर्मणां प्रकृतिस्थितिः॥२१॥ तीव्रमंदादिभावेन क्षीरे रसविशेषवत् । कर्मपुद्गलसामर्थ्य विशेषोऽनुभवो मतः ॥२१२॥ कर्मत्वपरिणत्यात्मपुद्गलस्कंधसंहतेः । प्रदेशः परमाण्वात्मपरिच्छेदावधारणा ॥२१३।। प्रकृतेः सप्रदेशाया नित्यं योगनिमित्तता। स्थितेःसानुभवायास्तु स्यात्कषायनिमित्तता ॥२१४॥ अनेनावियते ज्ञानमावृणोतीति वा स्वयं । ज्ञानावरणमाख्यातं दर्शनावरणं तथा ॥२१५।। वेद्यते वेदयत्येवं वेदनीयमनेन वा । मोडते मोहयत्येवं मोहनीयमपीरितं ॥२१६॥ नारकादिभवानेति त्वनेनेत्यायुरित्यपि । नम्यतेऽनेन वात्मानं नमयत्यपि नाम तत् ॥२१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org