________________
हरिवंशपुराणं।
६८२
अष्टपंचाशः सर्गः। मिथ्यादर्शनमात्मस्थं हिंसाद्यविरतिस्तथा । प्रमादश्च कषायश्च योगो बंधस्य हेतवः ॥१९२॥ तन्मिथ्यादर्शनं द्वेधा निसर्गान्योपदेशतः । मिथ्याकर्मोदयादाचं तत्त्वाश्रद्धानलक्षणं ॥१९३॥ परोपदेशपूर्व तु चतुर्धा मतभेदतः । क्रियावाद्यक्रियावादिविनयाज्ञानिकत्वतः ॥१९४॥ एकांतविपरीतत्वविनयाज्ञानसंशयः । निमितैः पंचधा चापि मिथ्यादर्शनमिष्यते ॥१९५॥ द्विषोढा विरतिज्ञेया प्रमादोनेकधा स्थितः । नवभिनॊकषायैस्तु कषायाः पंचविंशतिः ॥१९६॥ चत्वारः स्युर्मनोयोगा वाग्योगाश्च तथैव ते । काययोगास्तु पंचापि मनोयोगास्त्रयोदश । १९७॥ समस्तव्यस्तरूपास्तु पंचैते बंधहेतवः । मिथ्यादृष्टेर्हि पंचोय चत्वारस्त्रिषु पश्चिमाः ॥१९८॥ विरत्याविरतिर्मिश्रा प्रमादाद्यास्त्रयः परे । संयतासंयतस्योक्ताः कर्मबंधस्य हेतवः ॥१९९।। प्रमत्तसंयतस्यापि योगांतात्रय एव ते । तत ऊवं चतुणां तु कषायायोगसंगताः ॥२०॥ शांतक्षीणकषायौ तौ सयोगकेवली तथा । बंधकायोगतन्मात्रादयोगो नैव बंधकः ॥२०१॥ कषायकलुषो ह्यात्मा कर्मणो योग्यपुद्गलान् । प्रतिक्षणमुपादत्ते स बंधो नैकधा मतः ॥२०२॥ प्रकृतिश्च स्थितिश्चापि स बंधोनुभवस्ततः । प्रदेशबंधभेदेन चातुर्विध्यं प्रपद्यते ॥२०३॥ प्रकृति स्यात्स्वभावोत्र निंबादेस्तिक्ततादिवत् । कर्मणामिह सर्वेषां यथास्वं नियता स्थिता २०४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org