________________
हरिवंश पुराणं ।
६८१
अष्टपंचाशः सर्गः ।
योगनिः प्रणिधानानि त्रीण्यनादरता च ते । पंच स्मृत्यनुपस्थानं स्युः सामायिकगोचराः ।। १८० ॥ अनवेक्ष्यमलोत्सर्गादानसंस्तरसंक्रमाः । स्युः श्रोषधोपवासस्य तेनैकाम्यमनादरः || १८१ ॥ सचित्ताहारसंबंध सन्मिश्राभिषवास्तु ते । उपभोगपरी भोगे दुष्पकाहार एव च ॥ १८२ ॥ ते सच्चित्तेन निक्षेपः सचित्तावरणं परं । व्यपदेशश्च मात्सर्यं कालातिक्रमतातिथौ || १८३ || आशंसे जीविते मृत्यौ निदानं दीनचेतसः । सुखानुबंध मित्रानुरागौ सल्लेखनामलाः || १८४ ॥ सम्यज्ञानादिवृद्धयादिस्वपरानुग्रहेच्छया । दानं त्यागो निसर्गाख्यः प्रासुकं स्वस्य पात्रगं । १८५ । विधिदेयविशेषाभ्यां दातृपात्र विशेषतः । भेदः फलस्य भूम्यादेर्भेदात्सस्यर्द्धिभेदवत् ॥ १८६॥ प्रतिग्रहादिषु प्रायः सादरानादरत्वतः । दानकाले विधौ भेदः फलभेदस्य कारकः ॥ १८७॥ तपः स्वाध्यायवृद्धद्यादेर्देयभेदोऽपि हेतुता । एकं हि साम्यकृद्देयं ततो वैषम्यकृत्परं ॥ १८८ ॥ अनुसूयाविषादादिरसूयादिपरस्त्वयं । दायकस्य विशेषोऽपि विचित्रा हि मनोगतिः ॥ १८९ ॥ मोक्षकारणभूतानां दानानां धारणे सतां । तारतम्यं मनः शुद्धेर्विशेषः पात्र गोचरः ॥ १९०॥ पुण्यात्रत्रः सुखानां हि हेतुरभ्युदयावहः । हेतुः संसारदुःखानामपुण्यात्रव इष्यते ॥१९१॥ १ अप्रवेक्ष्य इति ख पुस्तके |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org