________________
हरिवंशपुराणं ।
६८०
अष्टपंचाशः सर्गः ।
रहोभ्याख्यानमेकांत स्त्रीपुंसेहाप्रकाशनं । कूटलेखक्रियान्येन त्वनुक्तस्य स्वलेखनं ॥ १६७॥ विस्मृतन्यस्तसंख्यस्य स्वल्पं स्वं संप्रगृह्णतः । न्यासापहार एतावदित्यनुज्ञापकं वचः ॥ १६८ ॥ साकारमंत्रभेदोसौ भ्रूविक्षेपादिकेंगितैः । पराकूतस्य बुद्धाविर्भावनं यया ॥ १६९ ॥ यत्सत्याणुव्रतस्यामी पंचातीचारकाचिरं । परिहार्याः समर्यादैर्विचार्याचार्यवेदिभिः || १७०|| त्रैधस्तेन प्रयोगस्तैराहृतादानमात्मनः । अन्यो विरुद्धराज्यातिक्रमश्चाक्रमकक्रिये ॥ १७१ ॥ नेन दानमित्येषामधिकेनात्मनो ग्रहः । प्रस्थादिमानभेदेन तुलाद्युन्मानवस्तुनः ॥ १७२ ॥ रूपकैः कृत्रिमैः स्वणैर्वचनः प्रतिरूपकः । व्यवहारस्त्वीचारास्तृतीयाणुत्रतस्य ते ॥ १७३॥ परविवाहाकरणमनंगक्रीडया गती । गृहीतागृहीतत्वर्यो कामतीत्राभिवेशनं ॥ १७४ || एते स्वदारसंतोषव्रतस्याणुव्रतात्मनः । अतीचाराः स्मृताः पंच परिहार्या प्रयत्नतः ॥ १७५॥ हिरण्यस्वर्णयोर्वास्तु क्षेत्रयोर्धनधान्ययोः । दासीदासाद्ययोः पंच कूप्यस्यैते व्यतिक्रमाः ॥१७६॥ दिग्विरत्यभिचारोधस्तिर्यगूर्ध्वव्यतिक्रमाः । लोभात्स्मृत्यंतराधानं क्षेत्रवृद्धिश्च पंचधा ॥ १७७॥ प्रेष्ये प्रयोगानयनपुद्गलक्षेपलक्षणाः । शब्दरूपानुपातौ द्वौ तद्देशविरतिर्व्रते ॥ १७८ ॥ पंच कंदर्प कौत्कुच्य मौखर्याणि तृतीयके । असमीक्ष्याधिकरणोपभोगादिनिरर्थने ॥ १७९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org