SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । अष्टपंचाशः सर्गः। चतुराहारहानं यभिरारंभस्य पर्वसु । स प्रौषधोपवासोऽक्षाण्युपेत्यास्मिन्वसंति यत् ॥१५४॥ गंधमाल्यानपानादिरुपभोग उपेत्य यः। भोगोऽन्यः परिभोगो यः परित्यज्यासनादिकः।।१५५।। परिमाणं तयोर्यत्र यथाशक्ति यथायथं । उपभोगपरीभोगपरिमाणवतं हि तत् ॥१५६।। मांसमद्यमधुबूतवेश्यास्त्रीनक्तभुक्तितः । विरतिनियमो ज्ञेयोऽनंतकायादिवर्जनं ॥१५७।। स संयमस्य वृद्धयर्थमततीत्यतिथिः स्मृतः । प्रदानं संविभागोऽस्मै यथाशुद्धियथोदितं ॥१५८॥ भिक्षौषधोपकरणप्रतिश्रयविभेदतः । संविभागो तिथिभ्यस्तु चतुर्विध उदाहृतः ॥१५९॥ सम्यक्कायकषायाणां वहिरंतर्हि लेखना । सल्लेखनापि कर्तव्या कारणे मारणांतिकी ॥१६०॥ रागादीनां समुत्पत्तावागमोदितवर्मना । अशक्यपरिहारे हि सांते सल्लेखना मता ॥१६॥ अष्टौ निश्शंकतादीनामष्टानां प्रतियोगिनः। सम्यग्दृष्टेरतीचारास्त्याज्याः शंकादयः सतां॥१६२।। पंच पंच त्वतीचारा व्रतशीलेषु भाषिताः । यथाक्रमममी वेद्याः परिहार्याश्च तद्वतैः ॥१६३।। गतिरोधकरो बंधो वधो दंडातितारणा । कर्णाद्यपनयच्छेदोप्यतिभारातिरोपणं ॥१६॥ अभपाननिरोधस्तु क्षुद्वाधाधिकरोगिनां । अहिंसाणुव्रतस्योक्ता अतिचारास्तु पंच ते ॥१६५॥ अतिसंघापनं मिथ्योपदेश इह चान्यथा । यदभ्युदयमोक्षार्थक्रियास्वन्यप्रवर्तनं ॥१६६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy