________________
हरिवंशपुराण।
आरपंचाशः सर्गः। स्वर्णदासगृहक्षेत्रप्रभृतेः परिमाणतः । वुद्धेच्छापरिमाणाख्यं पंचमं तदणुव्रतं ॥१४२॥ गुणवतान्यपि त्रीणि पंचाणुव्रतधारिणः । शिष्या (क्षा) व्रतानि चत्वारि भयंति गृहिणःसतः१४३ यःप्रसिद्धरमिज्ञानः कृतावध्यनतिक्रमः । दिग्विदिक्षु गुणेष्वाद्यं वेद्यं दिग्विरतिव्रतं ॥१४४॥ ग्रामादीनां प्रदेशस्य परिमाणकृतावधिः । वहिर्गतनिवृत्तिर्या तद्देशविरतिव्रतं ॥१४५।। पापोपदेशोऽपध्यानं प्रमादाचरितं तथा । हिंसाप्रदानमशुभश्रुतिश्चापीति पंचधा ॥१४६॥ पापोपदेशहेतुर्योनर्थदंडोपकारकः । अनर्थदंडविरतिव्रतं तद्विरतिः स्मृतं ॥१४॥ पापोपदेश आदिष्टो वचनं पापसंयुतं । यद्वणिग्वधकारंभपूर्वसावद्यकर्मसु ॥१४८॥ अपध्यानं जयः स्वस्य यः परस्य पराजयः । वधबंधार्थहरणं कथं स्यादिति चिंतनं ॥१४९॥ वृक्षादिच्छेदनं भूमिकुट्टनं जलसेचनं । इत्यायनर्थकं कर्म प्रमादाचरितं तथा ॥१५०॥ विषकंटकशस्त्राग्निरज्जुदंडकषादिनः । दानं हिंसाप्रदानं हि हिंसोपकरणस्य वै ॥१५१।। हिंसारागादिसंवर्षिदुःकथाश्रुतिशिक्षया । पापबंधनिबंधो यः सः स्यात्पापाशुभश्रुतिः ॥१५२॥ माध्यस्थ्यैकत्वगमनं देवतास्मरणस्थितिः । सुखदुःखारिमित्रादौ बोध्यं सामायिकं व्रतं ॥१५३।।
१ बुद्धीच्छा, बुद्धीस्था इत्यपि पाठौ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org