________________
६७७
हरिवंशपुराणं ।
अष्टपंचाशः सर्गः। सदर्थमसदर्थं च प्राणिपीडाकरं वचः । असत्यमनृतं प्रोक्तमृतं प्राणिहितं वचः ॥१३०॥ अदत्तस्य स्वयं ग्राहो वस्तुनश्चौर्यमीर्यते । संक्लेशपरिणामेन प्रवृत्तिर्यत्र तत्र तत् ॥१३१।। अहिंसादिगुणा यस्मिन् वृंहति ब्रह्मतत्त्वतः । अब्रह्मान्यस्तु रत्यर्थ स्त्रीपुंसमिथुनेहितं ॥१३२॥ श्वगवामणिमुक्तादौ चेतनाचेतने धने । वाह्या वाह्ये च रागादौ हेये मू.परिग्रहः ॥१३३॥ तेभ्यो विरतिरूपाण्यऽहिंसादीनि व्रतानि हि । महत्वाणुत्वयुक्तानि यस्य संति व्रती तु सः॥१३४॥ सत्यपि व्रतसंबंधे निश्शल्यस्तु व्रती यतः । मायानिदानमिथ्यात्वं शल्यं शल्यमिव त्रिधा॥१३५।। सागारश्चानगारश्च द्वाविह व्रतिनौ मतौ । सागारोऽणुव्रतोऽत्र स्यादनगारो महाव्रतः ॥१३६॥ सागारो रागभावस्थो वनस्थोऽपि कथंचन । निवृत्तरागभावो यः सोऽनगारो गृहोषितः॥१३७॥ त्रसस्थावरकायेषु त्रसकायोऽपरोपणात्-विरतिः प्रथमं प्रोक्तमहिंसाख्यमणुव्रतं ॥१३८॥ यद्रागद्वेषमोहादेः परपीडाकरादिह । अनृताद्विरतिर्यत्र तद्वितीयमणुव्रतं ॥१३९॥ परद्रव्यस्य नष्टादेमहतोल्पस्य चापि यत् । अदत्तत्वस्य नादानं तत्तृतीयमणुव्रतं ॥१४०॥ दारेषु परकीयेषु परित्यक्तरतिस्तु यः । स्वदारेश्चैव संतोषस्तच्चतुर्थमणुव्रतं ॥१४१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org