________________
हरिवंशपुराणं ।
६७६
अष्टपंचाशः सर्गः । महाणुव्रतयुक्तानां स्थिरीकरणहेतवः । व्रतानामिह पंचानां प्रत्येकं पंच भावनाः ॥११७॥ स्ववाग्गुप्तिमनोगुप्ती स्वकाले वीक्ष्य भोजनं । द्वे चेर्यादाननिक्षेपसमिती प्राग्व्रतस्य ताः ॥११८॥ स्वक्रोधलोभभीरुत्वहास्यहानाधभाषणाः। द्वितीयस्य व्रतस्यैता भाषिताः पंच भावनाः॥११९॥ शून्यान्यमोचितागारवासान्यानुपरोधिताः । भैक्ष्यशुद्धथविसंवादौ तृतीयस्य व्रतस्य ताः ॥१२०॥ स्त्रीरागकथाश्रुत्या रम्यांगेक्षांगसंस्कृतैः । रसपूर्वरतस्मृत्योस्त्यागस्तुर्यव्रतस्य ताः ॥१२१॥ इष्टानिष्टेंद्रियार्थेषु रागद्वेषविमुक्तयः । यथास्वं पंच विज्ञेयाः पंचमवतभावनाः ॥१२२॥ हिंसादिष्विह चामुष्मिनपायावद्यदर्शनं । व्रतस्थैर्यार्थमेवात्र भावनीयं मनीषिभिः ॥१२३॥ दुःखमेवेति चाभेदादस द्वेद्यादिहेतवः । नित्यं हिंसादयो दोषा भावनीयाः सनीतिभिः ॥१२४॥ मैत्रीप्रमोदकारुण्यमाध्यस्थ्यं च यथाक्रमं । सत्वे गुणाधिक क्लिष्टे ह्यविनेये च भाष्यते ॥१२५॥ स्वसंवेगादिरागार्थ नित्यं संसारभीरुभिः । जगत्कायस्वभावौ च भावनीयो मनस्विभिः॥१२६॥ इंद्रियाद्या दश प्राणाः प्राणिभ्योत्र प्रमादिना । यथासंभवमेषां हि हिंसा तु व्यपरोपणं ॥१२७॥ प्राणिनो दुःखहेतुत्वादधर्माय वियोजनं । प्राणानां तु प्रमत्तस्य, समितस्य न बंधकृत् ॥१२८।। स्वयमेवात्मनात्मानं हिनस्त्यात्मा प्रमादवान् । पूर्व प्राण्यंगहरणात्पश्चात्स्याद्वा न वा वधः॥१२९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org