SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ पुराणं । अष्टपैचो सभी । 1 कुशलाचरणाचारजुगुप्सापरिवादिता । जुगुप्सा वेदनीयस्य हेतुरात्रवगोचरः ॥ १०४॥ अतिसंधानपरता परस्यालीकवादिता । प्रवृद्धरागतादिनीवेदनीयस्य कारणं ॥ १०५ ॥ सानुत्सेकतनुक्रोधस्वदारपरितोषिताः । हेतुः पुंवेदनीयस्य कर्मणः संसृतौ मतः ॥ १०६ ॥ प्राचुर्य च कषायाणां गुह्यांगव्यपरोपणं । परस्त्रीशक्तिरंतस्य वेदनीयस्य हेतवः ||१०७|| नारकस्यायुषो योगो वहारंभपरिग्रहैः । तैर्यग्योनस्य माया तु हेतुरास्रवणस्य सः ॥ १०८ ॥ मानुषस्यायुषो हेतुरल्पारंभपरिग्रहैः । संतुष्टत्वा व्रतत्वादि मार्दवं च स्वभावतः || १०९ ॥ सम्यक्त्वं च व्रतित्वं च बालतापस्ययोगिता । अकामनिर्जरा चास्य दैवस्यास्रवहेतवः ॥ ११० ॥ स्वयोगवक्रता चान्यविसंवादनयोगिता | हेतुर्नाम्नोऽशुभस्यैव शुभस्यातिसुयोगता ॥ १११ ॥ तथा नामविशेषस्य तीर्थकृत्वस्य हेतवः । सद्दर्शनविशुद्धयाद्याः षोडशातिविनिर्मलाः ॥ ११२ ॥ सगुणाच्छादनं निंदा परेषां स्वस्य शंसनं । असद्गुणसमाख्यानं नीचैर्गोत्रास्त्रवावहाः ॥ ११३ ॥ सनीचैर्वृच्यनुत्सेको हेतुरुक्तविपर्ययः । उच्चै गोतरायस्य दानविघ्नादिकर्तृता ॥ ११४ ॥ शुभः पुण्यस्य सामान्यादास्रवः प्रतिपादितः । तद्विशेषप्रतीत्यर्थमिदं तु प्रतिपद्यते ॥ ११५ ॥ हिंसानृतवचचौर्याब्रह्मचर्यपरिग्रहात् । विरतिर्देशतोशु स्यात्सर्वतस्तु महदृतं ॥ ११६ ॥ Jain Education International ६७५ For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy