SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणे । ६७४: अष्टचाशः सर्गः । कर्मास्रवाणां भेदोऽयं सामान्येन निरूपितः । भेदः कर्मविशेषणामास्त्रवस्य विशिष्यते ॥ ९१ ॥ प्रदोषनिह्नवादाने विघ्नासादनदूषणाः । ज्ञानस्य दर्शनज्ञानावृच्यो रात्रवहेतुतः ||१२|| दुःखशोकवधाक्रंदतापाः सपरिवेदनाः । असद्वेद्यास्रवद्वाराः स्वपरोभयवर्तिनः ॥९३॥ दया सकलभूतेषु प्रतिष्वत्यनुरागता । सरागसंयमो दानं क्षांतिः शौचं यथोदितं ॥ ९४ ॥ अर्हत्पूजादितात्पर्य बालवृद्धतपस्विषु । वैय्यावृन्यादयो वेद्या सद्यास्रवहेतवः || ९५|| केवलिश्रुतसंघेषु धर्मदेवेष्ववर्णवाक् । हेतुर्दर्शनमोहस्याप्यास्त्रवस्य निरूपितः ||१६|| उदयात्तु कषायाणां परिणामोऽपि तीत्रकः । हेतुश्चारित्रमोहस्य नानाभेदास्रवस्य तु ॥ ९७|| तत्र स्वान्यकषायाणामुत्पादेन समुद्धता । कषायवेदनीयस्य हेतुः सद्वृत्तभूषणं ॥ ९८ ॥ प्रहासशीलतादि स्याद्धर्मो प्रहसनादिभिः । सहास्यवेदनीयस्य महास्रवनिबंधनं ॥ ९९ ॥ विचित्रक्रीडनाशक्तिर्व्रतशीलाद्यरोचनं । रत्याख्यवेदनीयस्य हेतुः स्यादास्रवो महान् ॥ १०० ॥ परारतिविधानं च रतेरपि विनाशनं । अरतेर्वेदनीयस्य हेतुर्दुश्शीलसेवनं ॥ १०१ ॥ स्वशोकोत्पादनं चान्य शोकवृद्धयभिनिंदनं । कुशोकवेदनीयस्य नित्यमास्त्रवकारणं ॥ १०२ ॥ भयोत्पादनमन्येषां स्वभयस्य च भावनं । भयाख्यवेदनीयस्य संततो हेतुराखने ॥ १०३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy