________________
६७३
हरिवंशपुराणं।
अष्टपंचाशः सर्गः । सा व्यालस्याद्धि शास्त्रोक्तविधिकर्तव्यतां प्रति । अनादरस्त्वनाकांक्षा-क्रिया पंचक्रिया इमाः।७८।। आरंभे क्रियमाणेन्यैः स्वयं हर्षप्रमादिनः । सा प्रारंभक्रियात्यंत तात्पर्य वांछितादिषु ॥७९॥ सा पारिग्राहिणी ज्ञेया परिग्रहपरा क्रिया । मायाक्रियापि च ज्ञानदर्शनादिषु वंचना ।।८०॥ या मिथ्यादर्शनारंभदृढीकरणतत्परा | प्रोत्साहनादिनान्यस्य सा मिथ्यादर्शनक्रिया ॥८॥ कर्मोदयवशात्पापादनिवृत्तिरपि क्रिया । अप्रत्याख्यानसंज्ञा सा पंचामूरास्त्रवक्रियाः ॥८२॥ मंदमध्यातितीव्रत्वात्परिणामस्य देहिनां । मंदो मध्योतितीव्रः स्यादास्रवो हेतुभेदतः ॥८३।। जीवाधिकरणश्चाप्य जीवाधिकरणोऽपि सः । आस्रवो भिद्यते द्वधा जीवाधिकरणास्रवाः ।।८४॥ तैः संरंभसभारंभै सारंभैःस्विकृतादिभिः । त्रियोगैश्च कषायैश्च षट्त्रिंशत्पृथगास्रवाः ॥८५॥ निर्वर्तना च निक्षेपो जीवाधिकरणास्रवाः । सयोगश्च निसर्गश्च द्विचतुर्द्वित्रिभेदिनः ॥८६॥ निर्वर्तनाधिकरणं मूलोत्तरगुणा द्विधा । शरीरवाङ्मनःप्राणापानादीनां च तौ गुणौ ॥८७॥ सहसादुःप्रमृष्टानाभोगसांप्रत्यवेदितौ । भेदैश्चतुर्विधैरतन्निक्षेपाधिकरणं पुनः ॥८८॥ भक्तपानोपकरणसंयोगद्वितयात्मना । तद्वैविध्यं हि संयोगकारणस्य च कीर्तितं ॥८९॥ यनिसर्गाधिकरणं तत्त्रैविध्यं प्रपद्यते । वामनःकायपूर्वैस्तु निसर्गस्तत्प्रवर्तनः ॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org