________________
हरिवंशपुराणं।
६७१
अष्टपंचाशः सर्गः । यावंतोऽपि वचोमार्गास्तावतो यन्नयास्ततः । इयंत इति संख्यानं नयानां नास्ति तत्त्वतः ॥५२॥ धमोधर्मों तथाकाशं पुद्गलः काल एव च । पंचाप्यजीवतत्त्वानि सम्यग्दर्शनगोचराः ॥५३॥ गतिस्थित्योर्निमित्तं तौ धर्माधर्मों यथाक्रमं । नभोवगाहहेतुस्तु जीवाजीवद्वयोस्सदा ॥५४॥ पूरणं गलनं कुर्वन् पुद्गलोनेकधर्मकः । सोऽणुसंघाततः स्कंधः स्कंधभेदादणुः पुनः ॥५५॥ वर्तनालक्षणो लक्ष्यः समयादिरनेकधा । कालः कलनधर्मेण सपरत्वापरत्वकः ॥५६॥ कायवाङ्मनसां कर्म योगः स पुनरास्रवः । शुभः पुण्यस्य गण्यस्य पापस्याशुभलक्षणः ॥५७।। सकषायाकषायौ द्वौ स्वामिनावात्रवस्य सः । मिथ्यादृष्ट्यादिकाद्यस्य सांपरायिककर्मणः ॥५८॥ उपशांतकषायादेरकषायस्य योगिनः । आस्रवः स्वामिनोंऽत्यस्य स्यादीर्यापथकर्मणः ॥५९।। इंद्रियाणि कषायाश्च हिंसादीन्यव्रतान्यपि । सांपरायिककर्मद्वाः स्यात्क्रियापंचविंशतिः ॥६०॥ चैत्यप्रवचनार्हत्सदूरुपूजादिलक्षणा । सा सम्यक्त्वक्रिया ख्याता सम्यक्त्वपरिवर्धिनी ॥६१।। प्रवृत्तिरकृतादन्यदेवतास्तवनादिका । सा मिथ्यात्वक्रिया ज्ञेया मिथ्यात्वपरिवर्धिनी ॥६२॥ कायाज्ञादिसरन्येषां गमनादि प्रवर्तनं । सा प्रयोगक्रिया वेद्या प्रायोऽसंयमवर्धिनी ॥६३।। आभिमुख्यं प्रति प्रायः संयतस्याप्यसंयमे । समादानक्रिया प्रोक्ता प्रमादपरिवर्धिनी ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org