________________
हरिवंशपुराणं ।
६७०
अष्टपंचाशः सर्गः ।
नयोऽनेकात्मनि द्रव्ये नियतैकात्मसंग्रहः । द्रव्यार्थिको यथार्थोऽन्यः पर्यायार्थिक एव च ॥ ३९ ॥ ज्ञेयौ मूलनयावेतावन्योन्यापेक्षिणौ मतौ । सम्यग्दृष्टास्तयोर्भेदाः संगता नैगमादयः ||४०|| नैगमः संग्रहश्चात्र व्यवहारर्जुसूत्रकौ । शब्दः समभिरूढाख्य एवंभूतच ते नयाः ॥ ४१ ॥
1
यो द्रव्यार्थिकस्याद्या भेदाः सामान्यगोचराः । स्युः पर्यायार्थिकस्यान्ये विशेषविषया नयाः ४२ अर्थसंकल्पमात्रस्य ग्राहको नैगमो नयः । उदाहरणमस्येष्ठं प्रस्थोदनपुरस्सरं ||४३|| आक्रांत भेदपर्याय कध्यमुपनीय यत् । समस्तग्रहणं तत्स्यात्सद्रव्यमिति संग्रहः ॥ ४४ ॥ संग्रहाक्षिप्तसत्तादेवहारो विशेषतः । व्यवहारो यतः सत्तां नमत्यंत विशेषतां || ४५॥ वक्रं भूतं भविष्यंतं त्यक्तर्जुसूत्रपाठवत् । वर्तमानार्थपर्यायं सूत्रयन्नृ सूत्रकः ॥४६॥ लिंगसाधन संख्यानकालोपग्रहसंकरं । यथार्थशब्दनाच्छन्दो न वृष्टिध्वनितंत्रकः || ४७|| शब्दभेदेऽर्थभेदार्थी व्यक्तपर्यायशब्दकः । नयः समभिरूढोर्थो नानासमभिरोहणात् ||४८॥ यदति तदैवेंद्रो नान्यदेति क्रियाक्षणे । वाचकं मन्यते त्वेवैवंभूतो यथार्थवाक् ||४९ || द्रव्यस्यानंतशक्तित्वात्प्रतिशक्तिभिदा श्रिताः । उत्तरोत्तरसूक्ष्मार्थगोचराः सप्त सन्नयाः ॥ ५० ॥ अर्थशब्दप्रधानत्वाच्छन्दांता पंचधा नयाः । संग्रहादितया षोढा प्रत्येकं स्युः शतानि ते ॥५१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org