________________
हरिवंशपुराणं ।
६६९
अष्टपंचाशः सर्गः । चैतन्योत्पत्यभिव्यक्ती चतुर्भूतेभ्य इच्छतां । तैलस्य सिकतादिभ्यो व्यक्त्युत्पत्ती न कि मते ॥२६॥ अनादिनिधनो जंतुरेति गत्यंतरादिह । याति गत्यंतरं भ्रांतो निजकर्मवशो भवेत् ॥२७॥ एतावानेव पुरुषो यावान्प्रत्यक्षगोचरः । इत्यादिरपसंवादः स्वपराहितवादिनां ॥२८॥ न संचिद्मात्रमात्मा स्याल्संवित्तौ क्षणिकात्मनि । अनुसंधानधीलोपे व्यवहारविलोपतः ॥२९॥ सत्यभूतः स्वयं जीवो ज्ञाता दृष्टास्ति कारकः । भोक्ता मोक्ता व्ययोत्पादध्रौव्यवान् गुणवान् सदा ३० असंख्यातप्रदेशात्मा ससंहारविसर्पणः । स्वशरीरप्रमाणस्तु मुक्तवणादिविंशतिः ॥३१॥ श्यामाककणमात्रो न न चाकाशाणुमात्रकः । नांगुष्ठपर्वमात्रो वा न पंचाशतयोजनः ॥३२॥ देहे देहे सवृत्तित्वे प्रदेशैः सकलैः सह । न स्वार्थ प्रतिपद्येत स्पर्शनं चक्षुरादिवत् ॥३३॥ परिमाणमहत्वेऽपि योजनेषु बहुष्वपि । स्पर्शनं न समं तस्या चक्षुषेवार्थदर्शनः ॥३४॥ तथा सति विरोधः स्यादृष्टेष्टाभ्यां पुमानयं । देहमानोऽधिगंतव्यः सर्वस्वानुभवात्तथा ॥३५॥ स गतींद्रियषट्काययोगवेदकषायतः । ज्ञानसंयमसम्यक्त्वलेश्यादर्शनसंज्ञिभिः ॥३६॥ भव्यत्वाहारपर्यतमार्गणाभिः स मृग्यते । चतुर्दशभिराख्यातगुणस्थानैश्च चेतनः ॥३७॥ प्रमाणनयनिक्षेपसत्संख्यादिकमादिभिः । संसारी प्रतिपत्तव्यो मुक्तोऽपि निजसद्गुणैः ॥३८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org