________________
हरिवंशपुराणं ।
६६८
अष्टपंचाशः सर्गः । अविद्यारागसंक्लिष्टो वंभ्रमीति भवार्णवे । विद्यावैराग्यशुद्धः सन् सिद्धयत्यविकलस्थितिः ॥१३॥ इत्याध्यात्म विशेषस्य दीपिका दीपिकेव सा । रूपादेः शमयत्याशु तमिश्रं तत्र संततं ॥ १४ ॥ अनानात्मापि तद्वृत्तं नानापात्रगुणाश्रयं । सभायां दृश्यते नाना दिव्यमंबु यथावनी || १५ || सावधानसभांतस्थं ध्वांतं सावरणं ध्वनिः । जिनोत्यभिनद्दिव्यो विश्वात्मेत्यादिभास्वनः ॥ १६ ॥ भवपद्धतिपांथस्य भव्यताशुद्धियोगिनः । देहिनः पुरुषार्थोत्र प्रेक्षितो मोक्षलक्षणः ||१७|| उपायस्तस्य मोक्षस्य ध्यानाध्यानैकहेतुनः । प्राक्सम्यग्दर्शनज्ञानचारित्रत्रितयात्मकः ||१८|| सम्यग्दर्शनमत्रेष्टं तत्त्वश्रद्धानमुज्वलं । व्यपोढसंशयाद्यंत निश्शेषमल संकरं ||१९|| तच्च दर्शनमोहांध क्षयोपशममिश्रजं । क्षायिकत्वं त्रिधा द्वेधा निसर्गाधिगमत्वतः ||२०|| जीवाजीवाश्रवाः बंधसंवरौ निर्जरा तथा । मोक्षश्च सप्ततन्त्वानि श्रद्धेयानि स्वलक्षणैः ॥ २१ ॥ जीवस्य लक्षणं लक्ष्यमुपयोगोऽष्टधा स च । मतिश्रुतावधिज्ञानतद्विपर्ययपूर्वकः ||२२|| इच्छा द्वेषः प्रयत्नश्च सुखं दुःखं चिदात्मकं । आत्मनो लिंगमेतेन लिंग्यते चेतनो यतः ||२३|| न पृथिव्यादिभूतानां जीवः संस्थानमात्रकः । तदवस्थास्य कामस्य चैतन्यव्यभिचारिणः ॥२४॥ पिष्टकिण्वोदकाद्येषु मद्यांगेषु पृथग्भवेत् । शक्तेः लेशो मदं कर्ता कायांगेषु तु नास्तिशः ॥ २५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org