________________
हरिवंशपुराण।
अष्टपंचाशः सर्गः अष्टपंचाशः सर्गः। एवं नित्योत्सवानंतकल्याणैकास्पदे पदे । लोके धर्म प्रशुश्रूषो कृतांजलिपुटे स्थिते ॥१॥ वदतां वरमानम्य वरदत्तो गणाग्रणीः । हितं पप्रच्छ भव्यानां समस्तानां जिनेश्वरं ॥२॥ तत्पश्नानंतरं धातुश्चतुर्मुखविनिर्गते । चतुर्मुखफला सार्था चतुर्वर्णाश्रमाश्रयाः ॥३॥ चतुरस्रानुयोगानां चतुर्णामेकमातृका । चतुर्विधकथावृत्तिश्चतुर्गतिनिवारिणी ॥४॥ एकद्वित्रिचतुःपंचषट्सप्ताष्टनवास्पदाः । अपर्यायापि सत्तेवानंतपर्यायभाविनी ॥५॥ अहितं शातयंती सा रोचयंती हितं सदा । स्थापयंती च तत्पात्रे धारयंती यथायथं ॥६॥ वारयंत्यशुभादाशु पूरयंती शुभं परं । श्लथयंत्यर्जितं कर्म ग्लपयंती प्रभावतः ॥७॥ समंततः शिवस्थानाद्योजनाधिकमंडले । अत्रैवात्रैव वृत्तेति तत्र तत्रास्ति तादृशं ॥८॥ मधुरस्निग्धगंभीरदिव्योदात्तस्फुटाक्षरं । वर्ततेनन्यवृका तत्र साध्वी सरस्वती ॥९॥ भावाभावद्वयाद्वैते भावबद्धा जगत्स्थितिः । अहेतुर्दश्यते तस्यामनाद्या पारिणामिकी ॥१०॥ अस्त्यात्मा परलोकोऽस्ति धर्माधर्मी स्त एव च। तयोःकर्तास्ति भोक्तास्ति चास्ति नास्तीति यत्पदं स्वयं कर्म करोत्यात्मा स्वयं तत्फलमश्नुते । स्वयं भ्राम्यति संसारे स्वयं तस्माद्विमुच्यते ॥१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org