________________
हरिवंशपुराणं ।
६६६
सप्तपंचाशः सर्गः प्रविश्य विधिवद्भक्त्या प्रणम्य मणिमौलयः । चक्रपीठं समारुह्य परियति त्रिरीश्वरं ॥१७॥ पूजयंतो यथाकामं स्वशक्तिविभवार्चनैः । सुरासुरनरेंद्राद्याः नामादेशं नमंति च ॥१७६।। ततोवतीर्य सोपानैः स्वैः स्वैः स्वांजलिमौलयः। रोमांचव्यक्तहर्षास्ते यथास्थानं समासते ॥१७७।। अभ्यक विकसद्भाति कमलाकरमंडलं । यथा तथा जिनाभ्यकं तद्गुणांबुजमंडलं ॥१७८॥ सा सेना सर्वतः सा प्रविशंती तदास्पदं । नालं पूरयितुं पूर्णा नदीव वरुणास्पदं ॥१७९॥ निर्यदायद्विशत्पश्यत्परीयत्प्रीणदानमत् । स्तुवदीशं सतां वृंदं सततं तत्र वर्तते ॥१८०॥ न मोहो न भयद्वेषौ नोत्कंठारतिमत्सराः । अस्यां भद्रप्रभावेन जंभाजुभा न संसदि ॥१८॥ निद्रातंद्रापरिक्लेशक्षुत्पिपासासुखानि न । नास्त्यभ्यर्चाशिवं सर्वमहरेव च सर्वदा ॥१८२॥ समवसरणभूमौ वाह्यभूत्येकभूमौ स्थितवति मुनिनाथेऽत्रांतरंगादिपूतौ। पिबति तृषितनेत्रै‘दशानां गणानां समितिरमृतरूपं जैनरूपांबराशिं ॥१८३॥ इत्यरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृतौ समवसरणवर्णनो नाम सप्तपंचाशः सर्गः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org