________________
६६५
हरिवंशपुराणं।
सप्तपंचाशः सर्गः । पारमेष्टयमनन्यस्थं ख्यापयन्नासनश्रिया । चामरैरमरोद्भूतैः क्रमस्थैः सुमहेशितां ॥१६२॥ त्रिलोकाधीशितां छत्रत्रयेणेंदुत्रयत्विषा । भामंडलेन भाधिक्यं भवांतरतमश्छिदा ॥१६३।। सर्वतुकुसुमेनान्यसर्वशोकापहारितां । अशोकेनाभिपूज्यंते सुमनोवृष्टिपूजया ॥१६४॥ सार्वत्वमभयाधानघोषणेन जयश्रियां । नंदीमंगलघोषेण साधुचित्ताभिनंदिनं ॥१६५॥ आत्माधीनाः प्रतीहाराः प्रतिहार्यगुणोद्भवैः । भूषितोष्टमहोदग्रप्रातिहामहेश्वरः ॥१६६॥ लोकानां भूतये भूतिमात्मीयां सकलां दधत् । सर्वलोकातिवर्तिन्या भासास्थानमधिष्ठितं ॥१६७॥ अयमास्ते समग्रात्मा सार्थकामाः ससंभ्रमाः । एतैत नमतेशानमित्याहानं सघोषणं ॥१६८॥ वर्तयंति सुरास्तस्मिन्मंडले तदनुद्रुतं । समंतात्तत्समायांति भूतिभिर्नूसुरासुराः ॥१६९॥ तदृष्टिगोचरे मंक्षु वाहनेभ्योवतीर्यते । मानांगणमथास्थाय पूर्व सांजलिमौलिभिः ॥१७॥ तत्र वाह्ये परित्यज्य वाहनादिपरिच्छदं । विशिष्टकाकुदैर्युक्ता मानपीठं परीत्य ते ॥१७१॥ प्रादक्षिण्येन वंदित्वा मानस्तंभमनादितः । उत्तमाः प्रविशत्यंतरुत्तमाहितभक्तयः ॥१७२॥ पापशीला विकुर्माणाः शूद्राः पाखंडपांडवाः । विकलांगेंद्रियोद्धांता परियति वहिस्ततः ॥१७३।। क्षत्रचामर,गाराद्यवहाय जयाजिरे । आतैरनुगताः कृत्वा विशंत्यंजलिमीश्वराः ॥१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org