________________
६६३
हरिवंशपुराणं ।
सप्तपंचाशः सर्गः। लक्षा षड्विंशतिज्ञेयाः सहस्राणां च विंशतिः । षट्पंचाशद्विशत्यामा तत्सर्वकर्दलीगणिः ॥१३६॥ तत्र संस्वेददेशेषु मंडपा रत्नमंडिता । द्वयेकगव्यूतविस्तारसमुत्सेधाश्चकासति ॥१३७॥ तदर्धव्यासनिर्माणशिखरांतरवासिनः । संति सन्मंगलोद्भासिमूर्तयोर्चा जिनेश्वराः ॥१३८॥ तत्रस्थाऽपि तद्देशाद्विनिष्क्रम्य नभस्यमी । यथोपदिष्टा दृश्यंते संमुखीभूय पश्यतां ॥१३९।। पीठानि त्रीणि भास्वंति चतुर्दिक्षु भवंति तु । चत्वारि च सहस्राणि धर्मचक्राणि पूर्वके ॥१४०॥ द्वितीये तु महापीठे शिखिहंसध्वजेतरे । अष्टौ तिष्ठति दिग्भागा भासयंतो महाध्वजाः॥१४॥ अग्रे श्रीमंडपोद्वासी प्रासादो बहुमंगलः । गंधकुट्यभिधानः स्यात्तत्र सिंहासनं विभोः ॥१४२॥ तत्रासीनं जिनाधीशं नृसुरासुरकोटयः । तुष्टुवुस्तुष्टचित्तास्ता मकुटन्यस्तपाणयः ॥१४३॥ विजयस्व महादेव ! विजयस्व महेश्वर । विजयस्व महाबाहो ! विजयस्व महेक्षण ॥१४४॥ इत्यादिश्रुतिकोटीनांमंते प्रव्रज्य तत्क्षणात् । गणिनामग्रणीर्जातो वरदत्तो गणाधिपः ॥१४५॥ षट्सहस्रनृपस्त्रीभिः सह राजीमती तदा । प्रव्रज्याग्रेसरी,जाता सार्यिकाणां गणस्य तु ॥१४६।। यतिवर्गादयः सर्वे गणा द्वादश ते ततः। प्रणिपत्य यथास्थानं तं प्रभुं समुपासते ॥१४७॥ परिपर्यध्वनस्तस्मिन्पदेषु द्वादशस्वमी । पूर्वदक्षिणभागादिष्वासतेग्रप्रदक्षिणं ॥१४८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org