________________
हरिवंशपुराणं ।
६६२ सप्तपंचाशः सर्गः । कृतावधानस्तत्सिद्धिं भूयः स्रष्टापि चिंतयन् । ध्रुवं मोमुह्यतेन्यस्य तथा चेत्तत्र का कथा || १२४ ॥ दशषोडशभिस्तस्य सुवर्णमणिजातिभिः । यथास्थानं स्वयं चित्रं निर्माणमभिराजते || १२५|| तलं तिस्रो जगत्यश्च तत्र क्रोशार्धविस्तृताः । उपर्युपरि तत्र स्यात्परिहाणिश्च तावती ॥ १२६ ॥ तासां वज्रमयी सिद्धिचित्ररत्नोज्वला भुवां । यत्प्रभाशक्रचापानि तनोति परितः पराः ॥ १२७ ॥ उरोदना वरंडास्ते भूषयंति ज्वलत्प्रभाः । जगतीर्यत्र राजते कदल्यो धनुरंतराः ॥१२८॥ त्रिंशदक्षमितैः कूटैर्द्विगुणायत कोष्ठकैः । द्विगुणैर्भूयते तासु दशदंडांतरास्थितैः || १२९||
द्वौ दारकावासावभितस्तस्तदंतिके । यत्र वैश्रमणस्यार्था प्रतिद्वारं प्रकाशते ॥ १३० ॥ कूटानां सप्तशत्यासु द्वासप्तत्यधिका क्रमात् । चत्वारिंशदष्टयुक्ता कोष्टकानां च सागणिः ॥ १३१ ॥ द्वाविंशतिशतान्याहुर्विंशानि जगतीत्रये । कूटसंख्या समासेन कोष्टकानां च तावती ॥१३२॥ एकाष्टलोकभीभंगनवैकद्विचतुर्भियैः । षडस्तिखैकमंगाः स्युर्जगतीकेतवः क्रमात् ॥१३३॥ वियद्भूयौनिभीभंग श्रेणयः पूर्वकोटगाः । भूषण्मंडल गव्योमखोत्क्रमा मध्यकूटगाः ॥१३४|| खाष्टष्टिचतुरस्त्यक्षीण्यंत कूटगता ध्वजाः । कोष्टगास्तत्र तत्रामी भाव्यंते ते द्विसंगुणाः ॥ १३५ ॥ १-३२३८१ । २-१४२१९ । ३-३१०५३ | ४-२३२४७० । ५-७६११० । ६ - २५४८८० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org