________________
६५१
हरिवंशपुराण।
सप्तपंचाशः सर्गः। निर्मित्सानंतरं भर्तुजस्योत्पद्यते पुरं । दिव्यं तत्र प्रभावो हि मनसा ज्ञापिनां महत् ॥१११॥ त्रिलोकसारं श्रीकांतं श्रीप्रभं शिवमंदिरं । त्रिलोकीलोककांतिश्रीश्रीपुरं त्रिदशप्रियं ॥११२॥ लोकालोकप्रकाशा द्यौरुदयोभ्युदयावहं । क्षेमं क्षेमपुरं पुण्यं पुण्याहं पुष्पकास्पदं ॥११३॥ भुवः स्वर्भूस्तपः सत्यं लोकालोकोत्तमं रुचिः । रुचावहमुदारधि दानधर्मपुरं परं ॥११४॥ श्रेयः श्रेयस्करस्तीर्थ तीर्थावहमुदग्रहं । विशालचित्रकूटं धीश्रीधरं च त्रिविष्टपं ॥११५।। मंगलोत्तमकल्याणशरणादिपुराणि पूः । जयापराजितादित्यजयंत्यवलसंपुरं ॥११६॥ विजयंतं जयंताभं विमलं विमलप्रभं । कामभूगगनाभोगं कल्याणं कलिनाशनं ॥११७॥ पवित्रं पंचकल्याणं पद्मावतः प्रभोदयः । परायमंडिता वासौ महेंद्र महिमालयं ॥११८॥ स्वायंभुवं सुधाधात्री शुद्धावासः सुखावती । विरजा वीतशोकार्थविमला विनयावनिः॥११९॥ भूतधात्री पुराकल्पः पुराणं पुण्यसंचयः । ऋषीवती यमवती रत्नवत्याजरामरा ॥१२०॥ प्रतिष्ठा ब्रह्मनिष्ठो: केतुमालिन्यनिंदितं । मनोरमं तमः पारमनीरत्नसंचयं ।।१२१॥ अयोध्यामृतधानीति समं ब्रह्मपुराख्यया । जाताहयमुदात्तार्थ तत्कल्प रुदीयते ॥१२२॥ अथ त्रैलोक्यसारैकसंदोहमयमद्भुतं । भाति भर्तृप्रभावोत्थं तत्पदं बहुविस्मयं ॥१२३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org