SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । ६६० सप्तपंचाशः सर्गः। ततोऽतःकल्पवासाख्या कल्पवासिनिवेशिनः । स्तूपास्ते कल्पवासार्द्ध साक्षात्कुर्वति पश्यतां॥९९॥ ग्रैवेयकपरास्तेन्ये नाम्ना स्तूपास्तथाविधाः। ततो ग्रैवेयकाभिख्यां दर्शयंतीव मानवान् ॥१०॥ नवानुदशनामानस्ततस्तूपा विराजते । नवानुदिश अध्यक्षं पश्यते यत्र प्राणिनः ॥१०१॥ विजयादिचतुर्दिका विमानोद्भासिनस्ततः । सर्वार्थदायिनः संति स्तूपाः सर्वार्थसिद्धिदाः॥१०२।। सिद्धस्तूपाः प्रकाशते ततोन्ये स्फटिकामलाः । यत्रत्र दर्पणच्छाया दृश्यते सिद्धरूपभाक् ॥१०३।। भव्यकूटाख्यया स्तूपा भास्वत्कूटास्ततोऽपरे। यानभव्या न पश्यति प्रभावांधीकृतेक्षणाः॥१०४॥ प्रमोहा नाम संत्यन्ये स्तूपा यत्र प्रमोहिताः। विस्मरंति यथाग्राहं चिराभ्यस्तं च देहिनः।।१०५॥ प्रबोधाख्या भवत्यन्ये स्तूपा यत्र प्रबोधिता । तत्त्वमासाद्य संसारान्मुच्यते साधवो ध्रुवं ॥१०६॥ एवमन्योन्यसंसक्तवेदिकातोरणोज्वलाः । दश स्तूपा समुत्तुंगाः राजंत्याः परिधेः क्रमात् ॥१०७॥ ततोस्ति क्रोशविस्तारं परिधिर्धनुरुच्छ्रतिः । यत्र मंडलभूवार्य परियति नरामराः ।।१०८॥ बाधाः सप्तदश न्यस्ता गव्यूतेवृतमेकतः । कर्णिकाथ तदंतस्था ज्ञेया सार्वत्रियोजना ॥१०९॥ परिवेष इवाकं यः परिधेः परिवेष्ट्यते । चित्ररत्नमयोंतस्थं भासुरं परिमंडलं ॥११०॥ १ 'सर्वार्थसिद्धयः। इति ख पुस्तके । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy